________________
हेमचन्द्रव्याकरणे
[४२८-४३२
महिकणिचण्यणिपल्यलितलिमलिशलिभ्यो णित् ।। ४२८ ।। ___ एभ्यो णिदुरः प्रत्ययो भवति ॥ मह पूजायाम् । माहूरः शैलः ।। कण गतौ । काणूरो नागः ॥ चण हिंसादानयोश्च । चाणूरो मप्लो विष्णुहतः ॥ अण शम्दे । आणूरो ग्रामः || पल गतौ | पालूरं नाम नगरमन्ध्रराज्ये ॥ अली भूषजादौ | आलूरो विटः || तलण् प्रतिष्ठायाम् | तालुरो जलावनः || मलि धारणे | मालूरो दानवो बिल्वश्व || शल गतौ | शालूरो दर्दुरः ॥ ४२८ ॥
स्थाविडेः कित् ।। ४२९ ।। आभ्यां किदूरः प्रत्ययो भवति ॥ ष्ठां गतिनिवृत्तौ । स्थूरो वटर उच्चश्व | स्थूरा जलापदेशः ॥ विड आक्रोशे । विडूरो वालवाये मामः ॥ ४२९ ॥
सिन्दूरकरपत्तूरधुत्तूरादयः ॥ ४३० ।।। एत ऊरप्रत्ययान्ता निपात्यन्ते ॥ स्यन्देः सिन्द च । सिन्दुरं चीनपिष्टः ॥ करीतेश्वोन्तश्च । कयूंर औषधविशेषः ॥ पतेस्तोन्तश्च | पत्तूरं गन्धद्रव्यम् ॥ धुवो द्विरुक्तस्तोन्तो हस्वश्च । धुत्तर उन्मत्तकः । दधातेर्धत्तूरमित्यन्ये ॥ आदिग्रहणात् कस्तूरहारहरादयो भवन्ति ॥ ४३० ॥ ___कुगुपतिकथिकुथिकठिकठिकुटिगडिगुडिमुदिमूलिदं
शिभ्यः केरः ।। ४३१ ॥ एभ्यः किदेरः प्रत्ययो भवति ॥ कुंड शब्दे । कुबेरो धनदः ॥ गुंन् पुरीपोत्सर्गे । गुबेर युद्धम् ॥ पतु गतौ । पतेरः पक्षी पवनश्च ।। कथण वाक्यप्रबन्धे । कथेरः कथकः कुहकः शकुन्तश्च ॥ कुथच् पूतिभावे । कुथेरः शिडाकीसंभारः ।। कर कृच्छजीवने | कठेरो दरिद्रः ॥ कुठिः सौत्रः । कुठेरो निःसृतसारोर्जकश्व ।। कुटत् कौटिल्ये | कुटरः शठः ॥ गड सेचने | गडेरो मेघः प्रस्रवणशीलश्व ॥ गुडत् रक्षायाम् । गुडेरो राजा पण्यं च बालभक्ष्यम् ॥ मुदि हर्षे । मुदेरो मूर्खः । मूल प्रतिष्ठायाम् । मूलेरो वनस्पतिः । मूलेरं पण्यम् ॥ दंशं दशने । दशेरः सर्पः सारमेयो जनपदश्च ॥ ४३१॥
शतेरादयः ॥ ४३२ ॥ शतेर इत्यादयः शब्दाः केरप्रत्ययान्ता निपात्यन्ते ॥ शर्दू शातने । तश्च । शतेरो वायुस्तुपारच ॥ आदिग्रहणात् गुधेरशृङ्गवेरनालिकेरादयो भवन्ति ।। ४३२॥
Aho 1 Shrutagyanam