________________
६२
हेमचन्द्रव्याकरणे
[३६४-३६८
शिक्यास्याढ्यमध्यविन्ध्यधिष्ण्याघ्न्यहर्म्यसत्य नित्यादयः || ३६४ ||
एते प्रत्ययान्ता निपात्यन्ते || शोंच् तक्षणे । इकश्वान्तः । शिक्यं लम्बमानः पिठर्याद्याधारः परित्राभिक्षाभाजनस्थानमसारं च ॥ असूच् क्षेपणे । दीर्घत्वं च | आस्यं मुखम् || आङ्पूर्वात् ढौकतेर्डिच | भढयो धनवान् ॥ मव बन्धने । ध् च । मध्यं गर्भः || विधत् विधाने | स्त्ररान्नोन्तश्र | विन्ध्यः पर्वतः || ञिधृबाट् प्रागल्भ्ये | नोतो धिष् च । धिष्ण्यं भवनमासनं च । धिष्ण्योल्का ॥ नञ्पूर्वात् हन्तेरुपान्त्यलोपश्च । अन्यो धर्मो गोपतिश्व | अन्या गौः || हरतेर्मोन्तश्च । हर्म्यं सौधम् || भस्तेः सत् च | सत्यममृषा || निपूर्वात् यमेस्तोन्तो धातुलुक् च । नित्यं ध्रुवम् || आदिग्रहणात् लह्यद्रुह्यादयो भवन्ति ॥ ३६४ ॥
कुगुवलिमलिकणितन्याम्यक्षेरयः || ३६५ ॥
एभ्योयः प्रत्ययो भवति || कुंक् शब्दे | कवय ऋषिः पुरोडाशश्च || गुंड् शब्दे | गवयो गवाकृतिपशुविशेषः || वलि संवरणे | वलयः कटकः ॥ मलि धारणे | मलयः पर्वतः ॥ कण शब्दे | कणय आयुधविशेषः || तनूयी विस्तारे | तनयः पुत्रः || अमण् रोगे । णिचि च । आमयो व्याधिः|| अक्षौ व्याप्तौ च । अक्षयो
विष्णुः ॥ ३६५ ॥
चायेः केक् च || ३६६ ।।
चायृग् पूजानिशामनयोः । इत्यस्मादयः प्रत्ययो [ भव ]त्यस्य च के क् इत्यादेशो भवति || केकयः क्षत्रियः ॥ ३६६ ॥
लादिभ्यः कित् || ३६७ ॥
लादिभ्यः किदयः प्रत्ययो भवति || लांक आदाने | लयः || पां पाने | पयः || ष्णांक् शैौचे | स्नयः || देंड् पालने | दय: ॥ ट्वें पाने | धयः ॥ मेंड् प्रतिदाने | मयः || कैं शब्दे | कथः । खै खदने । खयः ॥ श्रांक् पाके । श्रयः ॥ झैं जैं सैं क्षये | क्षयः । जयः । सयः ॥ ब्रैंड् पालने । त्रयः || ओवें शोषणे । वयः ॥ इत्यादि || ३६७ ॥
कसेरलादिरिच्चास्य ॥ ३६८ ॥
कस गतौ । इत्यस्मादलादिरयः प्रत्ययो [ भव ] त्यकारस्य च इकारो भवति ॥ किसलयं प्रवालम् ॥ ३६८ ॥
Aho ! Shrutagyanam