________________
३५८-३६३]
उणादिगण विवृतिः ।
६१
सव्यो वामो दक्षिणश्च ॥ मनिंच् ज्ञाने | मन्या धमनिः ॥ अनक् प्राणने | अन्यः परः || कनै दीप्यादिषु । कन्या कुमारी || षसक् स्वमे । सस्यं क्षेत्रस्थं गोधूमादि || पल गतौ । पल्यं कटकुसूलः || कलि शब्दसंख्यानयोः । कल्यो नीरोगः || पल फल शल गतौ । शल्यमन्तर्गतं लोहादि || शक्लृट् शक्तौ । शक्यमसारम् || ईर्ष्या ईर्ष्यार्थः । ईर्ष्यति ईर्ष्याणं वा | ईर्ष्या मात्सर्यम् || पहि मर्षणे | सह्यः पश्चादर्णवपार्श्वशैलः ॥ बन्धंश् बन्धने | बन्ध्याप्रसूतिः || ३५७ || नञो हलिपतेः || ३५८ ॥
नञ्पूर्वाभ्यामाभ्यां यः प्रत्ययो भवति ॥ हल विलेखने । अहल्या गौतमपत्नी || पल गतौ | अपत्यं पुत्रसंतानः || ३५८ ॥
सञ्जे च ॥ ३५९ ॥
ष स । इत्यस्माद्यः प्रत्ययो भवति धश्वान्तादेशो भवति ॥ संध्या दिननिशान्तरम् || ३५९ ॥
मृशीपसिवस्यभिभ्यस्तादिः ।। ३६० ।।
एभ्यस्तकारादिर्यः प्रत्ययो भवति || मृत् प्राणत्यागे । मर्त्यो मनुष्यः ॥ शीक् स्वमे । शैत्यः शकुनिः संवत्सरोजगर || पतिर्निवासे सौत्रः । दन्त्या - न्तः | पस्त्यं गृहम् ॥| वसं निवासे । वस्त्यो गुरुः || अनक् प्राणने । अन्त्यो निरवसितश्चण्डालादिश्व || ३६० ॥
ऋशिजनिपुणिकृतिभ्यः कित् ॥ ३६१ ॥
एभ्यः किद्यः प्रत्ययो भवति || ऋश गतौ स्तुतौ वा | स्वरादिस्तालव्यान्तः । ऋश्यो मृगजातिः || जनैचि प्रादुर्भावे | जन्यं संग्रामः | जाया पत्नी । ये न वेत्यात्वम् || पुणत् शुभे । पुण्यं सत्कर्म || कृतैत् छेदने | कृन्तति | कृत्या दुर्गा ॥ ३६१ ॥
कुलेई चवा || ३६२ ॥
कुल बन्धुसंस्त्यानयोः । इत्यस्मात्किद्यः प्रत्ययो [भवति ] डकारश्वान्तो वा भवति || कुड्यं भित्तिः ॥ कुल्या सारणी ॥ ३६२ ॥
अगपुलाभ्यां स्तम्भेोर्डत् ॥ ३६३ ||
अग पुल इत्येताभ्यां परस्मात् स्तम्भेः सौत्राडिद्यः प्रत्ययो भवति ॥ अगस्त्यः पुलस्त्यश्वर्षिः || ३६३ ॥
Aho! Shrutagyanam