________________
हेमचन्द्रव्याकरणे
(१८८-१९१ करणम् ॥ शृश् हिंसायाम् । शरणं गृहम् ॥ पृश् पालनपुरणयोः । परणम् || टुडुभंग्क् पोषणे च । भरणम् ॥ वृगट वरणे | वरणो वृक्षः सेतुबन्धश्च । वरणं कन्याप्रतिपादनम् ॥ श्रृंट श्रवणे । श्रवणः कर्णो भिक्षुश्च ।। रुक् शब्दे । रुंड् रेषणे च वा । रवणः करभोमिर्दुमो वायु ङ्गः शकुनिः सूर्यो घण्टा च ॥ रुहं जन्मनि । रोहणो गिरिः।। लक्षीण् दर्शनानयोः| लक्षणं व्याकरणं शुभाशुभसूचकं मषीतिलकाद्यनं च ॥ चक्षिक व्यक्तायां वाचि । विचक्षणो विद्वान् । चुक्कण् व्यथने । चुक्कणो व्यायामशीलः || बुक्क भाषणे । बुक्कणः श्वा वावदकश्च ।। तगु गतौ । तङ्गणा जनपदः ॥ अगु गतौ । अङ्गणमजिरम् ।। मकुड् मण्डने । मण ऋषिः ॥ ककुड् गती । कणं प्रतिसरः ॥ चर भक्षणे च | चरणः पादः ।। ईरिक् गतिकम्पनयोः । सम्पूर्वः । समीरणो वातः ।। १८७ ॥
कगृपृकृपिवृषिभ्यः कित् ।। १८८ ॥ एभ्यः किदणः प्रत्ययो भवति || कृत् विक्षेपे | किरणो रश्मिः ।। गृत् निगरणे । गिरणो मेघ आचार्यो ग्रामश्च ।। पृश् पालनपूरणयोः । पुरणः समग्रयिता समुद्रः पर्वतविशेषश्च ।। कृपौड् सामर्थ्ये । कृपणः कीनाशः ।। वृष सेचने ॥ वृषणो मुष्कः ।। १८८ ॥
धृषिवहेरिश्चोपान्त्यस्य ।। १८९ ॥ आभ्यां किदणः प्रत्ययो भवति इच्चोपान्त्यस्य भवति || बिधृषाट् प्रागल्ल्ये । धिषणो बृहस्पतिः । धिषणा बुद्धिः । वहीं प्रापणे । विहण ऋषिः पाठश्च ॥ १८९ ॥ चिक्कणकुक्कणकणकुङ्कणकवणील्वणोरणलवणवङ्क्षणादयः ॥ १९ ॥
एते किदणप्रत्ययान्ता निपात्यन्ते ।। चिनोतेश्चिक च | चिकणः पिच्छिलः ॥ कुकिकृगोः कोन्तश्च | कुकणः शकुनिः ॥ कृकण ऋषिः ॥ कुकेः स्वरान्नोन्तश्च । कुडूणा जनपदः ।। त्रपेर्वश्च ॥ ववणो देशः ।। वलेवस्य उत् | वोन्तश्च । उल्वणः स्फारः ।। अर्तेरुर् च । उरणो मेषः ॥ लीयतेः क्लिद्यतेः स्वद्यते लवादेशश्च । लवणं गुणो द्रव्यं च ।। वच्चेः सः परादिनलोपाभावश्च । वणमूरुमूलसंधिः ॥ आदिशब्दात् ज्योतिरिङ्गणतुरणभुरणादयो भवन्ति ।। १९० ॥
। कृपिविषिवृषिधृषिमृषियुषिदुहिग्रहेराणक् ॥ १९१ ॥
एभ्य आणक् प्रत्ययो भवति | कृपौड् सामर्थ्ये । कृपाणः खगः ॥ विषू सेचने । विषाणं शृङ्ग करिदन्तश्च ॥ वृष सेचने । वृषाणः ॥ अिधृषा प्रागल्ल्थे ।
Aho I Shrutagyanam