________________
८६ ९२]
उणादिविवृतिः ।
पूहोः पुन्मूरौ च ॥ ८६ ॥
पूड् पवने | मुहौच् वैचित्त्ये । इत्येताभ्यां खः प्रत्ययो [भव ] त्यनयोश्च यथासंख्यं पुन्मूरित्यादेशौ भवतः । पुङ्खो बाणबुन्नभागो मङ्गलाचारश्च ॥| मूर्खोज्ञः ॥ ८६॥ अशेर्डित् ॥ ८७ ॥
शौटि व्याप्तौ । इत्यस्माड्डित्खः प्रत्ययो भवति || अद्भुत इति खमाकाशमिन्द्रियं च । नास्य खमस्तीति नखः । शोभनानि खान्यस्मिन् सुखम् | दुष्टानि खान्यस्मिन् दुःखम् || ८७ ॥
उषेः किल्लुक् च ॥
८८ ॥
१९
उषू दाहे । इत्यस्मात्कित्खः [ प्रत्ययो ] भवति लुक् चान्त्यस्य भवति || उपन्त्यस्यामित्युखा स्थाल्यूर्ध्वक्रिया वा ॥ ८८ ॥
महेरुच्चास्य वा ॥ ८९ ॥
मह पूजायाम् । इत्यस्मात्खः प्रत्ययोन्तलुगकारस्य च उकारादेशो वा भवति || मुखमाननम् | मखो यज्ञोध्वर्युरीश्वरश्व ।। ८९ ।।
न्युङ्खादयः ॥ ९० ॥
न्युङ्खादयः शब्दाः खप्रत्ययान्ता निपात्यन्ते ॥ नयतेः ख उन् चान्तः । न्युङ्खाः पकाराः || आदिग्रहणादन्येपि || ९ ||
मयेधिभ्यामूखेखौ ।। ९१. ॥
मयि गतौ । एधि वृद्धौ । इत्याभ्यां यथासंख्यमूख इख इत्येतौ प्रत्ययौ भवतः || मयूखो रश्मिः || एधिखो वराहः || ९१ ॥
गम्यमरम्यजि गद्यदिच्छागाडखडिगृभृवृस्वृभ्यो गः ॥ ९२ ॥
एभ्यो गः प्रत्ययो भवति || गनुं गतौ | गङ्गा देवनदी || अम गतौ | अङ्ग शरीरावयवः | अङ्गः समुद्रो वह्नी राजा च । अङ्गा जनपदः || रमिं क्रीडायाम् । रङ्गो नाट्यस्थानम् || अज क्षेपणे च । वेगस्त्वरा रेतश्व | गद व्यक्तायां वांचि । गद्गो वाग्विकलः || अदंक् भक्षणे | अङ्गः समुद्रोभिः पुरोडाशश्च || छोंच् छेदने । छागो बस्तः || गड सेचने | गङ्गो मृगजातिः || खडण् भेदे | खड्गो मृगविशेषोसिश्व || गृत् निगरणे | गर्ग ऋषिः || टुडुभ्रंग्क् पोषणे च । भर्गो रुद्रः सूर्यश्च ॥ वृग्ट् वरणे | वर्गः संघातः || औस्वृ शब्दोपतापयोः | स्वर्गो नाकः ॥ ९२॥
Aho! Shrutagyanam