________________
हेमचन्द्रव्याकरणे
भियो द्वे च ॥ ७८॥ अिभीक् भये । इत्यस्मात्तकक् प्रत्ययो भवति दे च रूपे भवतः ।। बिभीतकोक्षः ॥ ७८ ।।
हरुहिपिण्डिभ्य ईतकः ॥ ७९ ॥ एभ्य ईतकः प्रत्ययो भवति || हंग् हरणे । हरीतकी पथ्या || रुहं जन्मनि । रोहीतको वृक्षविशेषः ॥ पिडुड् संघाते । पिण्डीतकः करहाटः ॥ ७९ ॥
कुषेः कित् ।। ८० ॥ कुषश् निष्कर्षे । इत्यस्मात्किदीकः प्रत्ययो भवति ।। कुषीतक ऋषिः॥८॥
बलिबिलिशलिदमिभ्य आहकः ॥ ८१ ॥ एभ्य आहकः प्रत्ययो भवति ॥ बल प्राणनधान्यावरोधयोः ॥ बलाहको मेघो वातश्च ।। बिलत् भेदने | बिलाहको वचः । बाहुलकान्न गुणः ।। शल गतौ । शलाहको वायुः ।। दमूच् उपशमे | दमाहकः शिष्यः ।। ८१ ।।
चण्डिभल्लिभ्यामातकः ॥ ८२ ॥ आभ्यामातकः प्रत्ययो भवति || चडुड् कोपे । चण्डातकं नर्तक्यादिवासः ।। भल्लि परिभाषणहिंसादानेषु । भल्लातको वृक्षः ।। ८२ ॥
श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः ॥ ८३ ॥
एत आतकप्रत्ययान्ता निपात्यन्ते || श्लिषेर्मश्च परादिः । श्लेष्मातकः कफेलः॥ अमेर्वृद्धी रवान्तः । आम्रातको वृक्षः ॥ नञः परस्य म्लायतेमिल् च । अमिलातकं वर्णपुष्पम् ॥ पिषेस्तोन्तश्च । पिष्टातकं वर्णचूर्णम् ॥ आदिग्रहणात् कोशातक्यादयो भवन्ति ।। ८३ ॥
शमिमनिभ्यां खः ।।८४॥ ___ आभ्यां खः प्रत्ययो भवति ॥ शमूच् उपशमे । शङ्खः कम्बुर्निधिश्च ॥ मनिच् ज्ञाने | मङ्को मागधः कृपणचित्रपटश्च । मङ्खा मङ्गलम् ॥ ८४ ॥
इयतेरिच वा ॥८५॥ . शोच तक्षणे । इत्यस्मात्यः प्रत्ययो भवति इश्चास्यान्तादेशो वा भवति ।। शिखा चूडा ज्वाला च । विशिखापणः । विशिखो बाणः । शाखा विटपः । विशाखा नक्षत्रम् | विशाखः स्कन्दः ॥ ८५॥
Aho 1 Shrutagyanam