________________
अथ नाट्याचार्य मुनिमतेन भाषाणां भेद प्रदर्शन पूर्वकविनियोगः प्रदश्यत--
मागध्यवन्तिजा प्राच्या सूरसेन्य मागधी। बाहीका दाक्षिणात्या च सप्तभाषाः प्रकीर्तिताः॥४८॥ शवरा भीर चण्डाल सचर विडोद्रजाः ॥ हीना धनेचराणां च विभाषा नाटके स्मृता ॥४९॥ मागधी तु नरेन्द्राणा मन्तः पुर निवासिनाम । चेटानां राज पुत्राणां श्रीष्ठिना चार्द्ध मागधी ॥ ५० ॥ प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा । नायिकानां (च सखीनां च सूरसेना विरोधिनी ॥ ५१ ॥ योधनागरकादीनां दाक्षिणात्याथदीव्यताम्। वाहोकभाषोदाच्यानां खसानां च स्वदेशजा ॥ ५२ ॥ शबराणां शकानीनां तत्स्वभावश्चयोगणः। । (श सकारभाषायोक्तव्या चण्डाली पुक्कसादिषु ।। ५३॥ अङ्गारकार व्याधानां काष्ठयन्त्रोपजीधिनाम् । योज्याशवरभाषातु किचिद्वानोकसीतथा ॥ ५४॥ गवाश्वाजाविकोष्ट्रादि घोषस्थाननिवासिनाम् । आभीराक्तिः शावरीवा द्राविडी द्रावडादिषु ॥ ५५ ॥ सुरङ्गा खनकादीनां सौण्डीकाराश्च (शौण्डिकानां) रक्षिणाम् । व्यसने नायकानां स्या दात्मरक्षासु मागधी । ४६ ॥ नघवर किरातान्ध्र द्रविडाद्यासु जातिषु ।। नाट्य प्रयोग कर्तव्यं काव्यं भाषा समाश्रयम् ॥ ५७ ॥ गङ्गासागरमध्ये तु ये देशाः श्रुतिमागताः। एकारबहुला तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५० ॥ बिन्ध्य सागरमध्येतु ये देशाः श्रुतिमागताः । नकार बहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ।। ५९ ॥ सुराष्ट्रावन्तिदेशषु वेत्रवत्युत्तरेषु च । ये देशा स्तेषु कुर्वीत चकार बहुला मिह ॥ ६०॥ हिमवत्सिन्धुसौवीरा न्येच देशाः समाश्रिताः । उकार बहुलां तज्ज्ञ स्तेषु भाषां प्रयोजयेत् ॥ ६१ ॥ चर्मण्वती नदीपारे ये चावुद समाश्रिताः। तकार बहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ ६२॥ एवं भाषा विधानं तु कर्तव्यं नाटकाश्रयम् । अत्र नोक्तं मयायच लोकाद् ग्राह्य बुधस्तु तद् ॥ ६३ ॥
इति शम्।
Aho! Shrutgyanam