________________
१५४
प्राकृतप्रकाशे
प्राकृतादि भाषालक्षणानां व्यत्ययश्च भवति । यथा मागध्यां तिष्ठश्चिष्ठः इत्युक्तं तथा प्राकृतपैशाची शौरसेनीयपि भवति । चिष्ठदि । अपभ्रंशे रेफस्याधोवा लुगुक्तो मागध्यापि भवति । शद-माणुश-मंश-भालके । कुम्भशहश्र शाहे शंचिदे इत्याधन्यदपि द्रष्टव्यम् । न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । येवर्तमानेकाले प्रसिद्धास्तेभूतेऽपि भवन्ति । अहपे.
छइरहुतणओ । अथप्रेक्षांचके इत्यर्थः । आभासा रयणीअरे । आषभासेरजनीचरानित्यर्थः । भूते प्रसिमा वर्तमानेऽपि । सोही एस वण्ठो। शृणोत्येष वण्ठ इत्यर्थः।
शेष संस्कृतवत्सिद्धम् । ८।४।४४८ । शेषं यदत्र प्राकृतभाषासु एमेनोक्तं तत्सप्ताध्यायीनिवद्ध संस्कृतवदेव सिद्धम् ।
हेट-ट्टिअ-सूर-निवारणाय छत्तं अहो इव वहन्ती । जयह ससे. सावराहसास दुरुक्खुय। पुहवी ॥ अत्रतुझं आदेशोनोक्तः सच संस्कृतवदेव सिद्धः। उक्तमपि क्वचित् सँस्कृतवदेव भवति । यथा प्राकृते उरस शब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति । एवं सिरे सिरम्मि । सिरसि । सरे । सरम्मि । सरसि।
इति हेमानुशासनेऽपभ्रंशविचारः॥
- लाटी चूलिकादीनां विशेष मेदाऽभावान ग्रन्थ विस्तरो वित. म्यते मागध्याद्याः सविशेषं पूर्वमेवोक्ताः ॥
Aho! Shrutgyanam