________________
प्राकृतप्रकाशे धणे (२-४२ =ण् एत्वं माओवत्) [पक्षे] पुलिशश्शा धणे। (५-८ डम्स्प्स ११-३ स्स श शे० पू०) पुरुषस्य धनम् ॥ १२ ॥
अदीर्घः संबुद्धौ ॥ १३ ॥ अदन्तादित्येव अदन्ताच्छब्दादकारो दीर्घा मवतिसंबुद्धौ । पुलिशा आगच्छ । माणुशा (२-४२ न्-ण ११-३ ष-श५-२ जप्तो लोपः) आगच्छ । संबुद्धाविति किम् । वह्मणश्श धणे । (५-४७ सू०प० शे० पुलिशश्शवत्)। ब्राह्मणस्य धनम् ॥१३।।
चिट्ठस्य चिष्ठः ॥ १४ ॥ चिट्ठस्य(१) स्थाने चिष्ठ इत्ययमादेशो भवति । पुलिशे चिष्ठदि । (पुलिो व्याख्यातः १२-१३ चिटठ-चिष्ट १२-३ ति-दि) पुरुषस्तिष्ठति ॥ १४ ॥
कृमृङ्गमां क्तस्य डः ॥ १५ ॥ डुकुञ् करणे, मृङ्माणत्यागे, गम्ल गतौ एतेषां क्तप्रत्ययस्य स्थाने डकारो भवति । कडे । मडे । गडे । (१-२७ ऋ-अ एत्वं सोलॊपश्च माशेवत् शे० स्प०) कृतः। मृतः । गतः ॥१५॥
को दाणिः ॥ १६ ॥ __ क्त्वाप्रययस्य स्थाने दाणि इत्ययमदेशो भवति । शहिदाणि गडे । (२-३ स-श ७-३३ इत्वं शे० स्प० । कारिदाणि (१२-१५ कृञ्-कर इकारः पू० शे० स्प०) आअडे । (२-२ गलोपः शे० पू०) सोढ्वा गतः । कृत्वा ऽऽगतः ॥ १६ ॥ शृगालशब्दस्य शिआलाशिआलकाः ॥ १७॥
इत्येकादशः परिच्छेदः ।। (१) “स्थाश्चिट्ठ" इति साधितस्येत्यर्थः ॥
Aho! Shrutgyanam