________________
२०९
वास्तुप्रकरणम् । गृहेशति ॥ अद्वीज्यशुक्रे विबले निर्बले अस्ते अस्तंगते नीचराशिगते सति क्रमात् गृहेशतत्स्त्रीसुखवित्तनाशो भवति । यथा । सूर्ये निर्बले नीचस्थिते गृहेशस्य नाशः। इंदौ चंद्रे निर्बले अस्तमिते नीचगते वा गृहेशस्य स्त्रीनाशः । गुरौ ईज्ये निर्बलेऽस्तगे नीचगते वा गृहेशस्य सुखनाशः । शुक्रे निर्बलेऽस्तगे नीचगते वा वित्तनाशः । वसिष्ठस्तु । नीचे शत्रगते जीवे शुक्रे चंद्रेऽथ वा रवौ । निर्मितं सदनं शश्वदतिनिःस्वत्वमाप्नुयादिति । अस्तदोषोऽत्र न ग्राह्यः प्रातिदैवसिको बुधैः । नास्ते दोषः सदा चंद्रे न मैत्रेऽब्जस्य नीचतेति । कर्तुरिति । यन्नक्षत्रे दिनचंद्रस्तद्विधुभम् । यद्गृहस्य विस्तारायामवशादुत्पन्नभं तद्गृहभं तस्मिन्पुरस्थिते संमुखस्थे सति कर्तुगृहनिर्माणकर्तुस्तगृहे स्थितिर्निवासो न स्यात् । पृष्ठगते वा विधुवास्तुनोभै सति खनिः खननं चोरकृतापहारं तहशात्सर्वस्वहानिः स्यादित्यर्थः । पुरः पृष्ठस्थितत्वं च दिग्द्वारभक्रमेण । यथा । गृह द्वारं यस्यां दिशि विधित्सितं तदिक्षत्रे च गृहारंभो न कार्यः । वामदक्षिणनक्षत्रेषु गृहारंभः सुखेन कार्यः । यदुक्तं ब्रमशंभुना । गृहायलब्धऋक्षे च यन्नक्षत्रे च चंद्रमाः । शलाकासप्तके देयं कृत्तिकादिक्रमेण च ॥ वामदक्षिणभागे तत्प्रशस्तं शांतिकारकम् । अग्रे पृष्ठे न दातव्यं यदीच्छेच्छ्रेय आत्मनः ।। ऋक्षं चंद्रस्य वास्तोश्च अग्रे पृष्ठे न शस्यत इति । अयमाशयः । कृत्तिकादिसप्त नक्षत्रेषु अनुराधादिसप्तसु वा गृहनक्षत्रे चंद्रनक्षत्रे च सति पूर्वद्वारं पश्चिमद्वारं वा न कार्यम् । तत्र चंद्रः पृष्ठस्थितोऽग्रस्थितो वा भवति एवं मघादि सप्तसु धनिष्ठादि सप्तसु वा गृहनक्षत्रे चंद्रनक्षत्रे वा सति दक्षिणद्वारमुत्तरद्वारं वा न कार्यमित्यर्थः ॥ ६ ॥ इदानीं व्ययकथनपुरःसरं सफलमंशकज्ञानं उपजात्याहभं नागतष्टं व्यय ईरितोऽसौ ध्रुवादिनामाक्षरयुक सपिंडः॥ तष्टो गुणैरिंद्रकृतांतभूपा वंशा भवेयुर्न शुभोऽतकोऽत्र ॥ ७॥
भमिति ॥ प्रागुक्तदिशाकल्पितं यगृहभं तन्नागैरष्टभिस्तष्टं अवशिष्टं व्यय ईरितः। यथा रोहिणीभं ४ अयमेव व्ययः असौ व्ययः ध्रुवादिनामाक्षरयुक् ध्रुवादिनामान्यधुनैव वक्ष्यति । यानि दिक्षु द्वाराणि चिकीर्षितानि तदनुरोधेन यदागतं ध्रुवादिनाम तदक्षरसंख्यया युक्तः ततः स पिंडः प्रागानीतपिंडयुक्तः गुणेस्त्रिभिस्तष्टो भक्तावशिष्टः एकद्वित्रिशेषेण इंद्रयमराजसंज्ञकास्त्रयोंऽशाः स्युः । अत्र गृहारंभेऽतको यमाख्योऽशको न शुभः । अर्थादिंद्रराजानौ शुभफलदौ ॥ ७ ॥ अथ शालाध्रुवाद्यानयनमनुष्टुभाहदिक्षु पूर्वादितः शाला ध्रुवाभूतौ कृता गजाः॥
शालाधुवांकसंयोगः सैको वेश्मध्रुवादिकम् ॥ ८॥ दिक्ष्विति ॥ प्राच्या द्वारे चिकीर्षिते शालाध्रुवांक एकः दक्षिणस्यां द्वौ पश्चिमायां
Aho! Shrutgyanam