________________
वास्तुप्रकरणम् ।
२०५ मृतपक्षेति ॥ मृतपक्षः तमोभुक्तताराः स्मृता विश्वसंख्या इत्याद्युक्तः रिक्तरवितर्कसंख्यकाः चतुर्थीनवमीचतुर्दशीद्वादशीषष्ठयस्तिथयः उपलक्षणत्वादष्टमीपूर्णिमामावास्याशुक्लपक्षप्रतिपदः सौरिभौमरविवाराः वामष्टष्ठगविधुः अजवृषभमिथुनकुलीरा इत्यादि जातकोक्त्या वामप्टष्ठराशिगतः आडलो रवे तोऽब्जभोन्मितिरिति भ्रमणमपि ज्ञेयम् । वसुपंचकं धनिष्ठोत्तरार्धात्पंच नक्षत्राणि अभिजिन्मुहूर्तश्च दक्षिणे वय॑ः एते पंचांगदोषाः ॥ १११ ॥ अथ लग्नदोषान् स्रग्धरयाह
लग्ने जन्मर्मतन्वोर्मृतिगृहमहिताच षष्ठं तदीशा वा लग्ने कुंभमीनःनवलवतनूचापि पृष्ठोदयं च ॥ पृष्ठाशामृक्षसंस्थं दशमशनिरथो सप्तमे चापि काव्यः केंद्रे वक्राश्च वक्रीग्रहदिवसविवाहोक्तदोषाश्च नेष्टाः॥ ११२॥ इति मुहूर्तचिंतामणौ यात्राप्रकरणं समाप्तम् ॥ लग्ने इति ॥ जन्मराशेर्जन्मलग्नाद्वाऽष्टमगृहं अहितच्छित्रुजन्मराशेर्जन्मलग्नाद्वा षष्ठम् लग्ने यात्रालग्ने तदीशाः तेषां जन्मराशिजन्मलग्नाभ्यामष्टमभवनयोः स्वामिनः रिपुजन्मराशिजन्मलग्नाभ्यां षष्ठभवनयोः खामिनो वा कुंभमीनयोर्नवलवो नवांशी लग्नं च । पृष्ठोदया गोजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठोदया विमिथुना इत्युक्ताः पृष्ठाशासंस्थमृक्षं गंतव्यदिग्विलोमलग्नम् दशमे शनिः सप्तम काव्यः शुक्रः केंद्रे वक्राः वक्रिणो ग्रहाः वक्रिग्रहवाराश्च एते दोषा विवाहोक्तदोषा उत्पातान् सहपातदग्धतिथिभिरित्याधुक्तास्ते सर्वे यात्रायां वाः । तत्र सप्तमशुक्रव्यतिरिक्तो जामित्रदोषो नास्तीति ज्ञेयम् ॥ ११२ ॥
इति प्रमिताक्षरायां यात्राप्रकरणं समाप्तम् ॥
॥ अथ वास्तुपकरणमारंभः॥ अथ वास्तुप्रकरणं व्याख्यायते । गृहनिर्माणप्रयोजनं भविष्यपुराणे । गृहस्थस्य क्रियाः सर्वा न सिद्ध्यंति गृहं विना । यतस्तस्मागृहारंभप्रवेशसमयौ ब्रुवे ॥ गृहं स्वसत्ताकम् । न सिद्ध्यंति निष्फला भवंतीत्यर्थः । इत्येतन्मनस्यालोच्य ग्रामादिषु स्वस्य शुभाशुभं लाभालाभादिविचारं शार्दूलविक्रीडितेनाह
यझं वयंकसुतेशदिमितमसौ ग्रामः शुभो नामभास्वं वर्ग द्विगुणं विधाय परवर्गाढ्यं गजैः शेषितम् ।। काकिण्यस्त्वनयोश्च तद्विवरतो यस्याधिकाः सोऽर्थ
दोऽथद्वारं द्विजवैश्यशूद्रनृपराशीनां हितं पूर्वतः ॥ १॥ यद्भमिति ॥ नामभात् व्यावहारिकनाममात् व्यावहारिकनामराशेः यस्य ग्रामादेर्भ
Aho! Shrutgyanam