________________
१६६
मुहूर्तचिंतामणौ णवशेनेति केचित् । यथा । दग्धा दिगैशी ज्वलिता दिगेंद्री धूमान्विता चानलदिक् प्रभाते। इत्येवमेव प्रहराष्टकेन भुंक्त दिशोऽष्टौ सविता क्रमेणेति । अनेन भ्रमणप्रकारेण यस्यां दिशि यस्मिन् प्रहरे भ्रमणसंभवः सा दिक् सूर्यसंमुखोच्यते । तत्पंचमी दिक् सूर्यप्टष्ठगतेत्युच्यते इत्याहुः । वस्तुतस्तु। द्वादशराशिभ्रमवशेन यस्यां दिश्यर्कः स्थितः तां पृष्ठतः कृत्वा यायादित्यर्थः । यथा । लग्नस्थेऽकै पश्चिमां दिशं गच्छेत् चतुथै दक्षिणां सप्तमे पूर्वाम् दशम उत्तरामित्यर्थः । यदाह देवलः । लग्नस्थे वरुणाशां हिबुकस्थे दक्षिणां रवौ यायात् । सप्तमगे पूर्वाशां मेषूरणसंस्थिते सौम्यामिति । एवं विदिक्ष्वपि ज्ञेयम् । यथाद्वितीयतृतीयस्थितेऽकेनैर्ऋतीम् पंचमे षष्ठे आग्नेयीम् अष्टमे नवमे ऐशानीयम् एकादशे द्वादशके वायव्यां गच्छेदिति । अथ तारानिषेधमाह । जनुरिति । स्वजन्मनक्षत्रादिननक्षत्रं यत्संख्यं स्यात् तस्मिन्नवभक्ते अवशिष्टाः प्रथमसप्तमपंचमतृतीयाख्यास्ताराश्चेत्स्युस्तदा नेष्टा निषिद्धाः ॥ ८॥ अथ तिथ्यादिशुद्धिं भुजंगप्रायतेनाह
न षष्ठी न च द्वादशी नाष्टमी नो सिताद्या तिथिः पूर्णिमाऽमा न रिक्ता ॥ हयादित्यमित्रेदुजीवांत्यहस्त
श्रवोवासवैरेव यात्रा प्रशस्ता ॥९॥ न षष्ठीति॥ सिताद्या तिथिः शुक्लपक्षप्रतिपत् आसु तिथिषु यात्रा न प्रशस्तेत्यर्थः । नारदः । षष्ठयष्टमीडादशिकारिक्तामावर्जितासु च । यात्रा शुक्ल प्रतिपदि निधनाय भवेदिति । हयोऽश्विनी आदित्यं पुनर्वसुः मित्रोऽनुराधा इंदुम॒गः जीवः पुष्यः अंत्यं रेवती हस्तश्रवणधनिष्ठाः एतैर्नवभिनक्षत्रैः यात्रा प्रशस्तोत्तमा मध्यानि निषिद्धानि च भानि। वसिष्ठ आह । तिस्रोत्तरावारुणनैर्ऋतेंद्रपूर्वात्रयं ब्राह्मभयुग्दशैवम् । मध्यान्यनिष्टान्यनलानिलेशद्विदैवचित्राहिमघांतकानीति । तिस्रोत्तरा इत्यार्षः संधिः। ननु वसिष्ठेन वारा उक्ताः। सुरेज्यदैत्येज्यशशीदुजानां वाराश्च वर्गाः शुभदाः प्रयाणे । आदित्यभूसूनुशनैश्चराणां वाराश्च वर्गा न शुभप्रदाः स्युरिति । अत्र कुतो नोक्ता इति चेत् नारदादिभिरनुक्तत्वात् । वसिष्ठादिभिरुक्तपापग्रहवारशूलनिषेधवैयर्थ्याच्च दोषाधिक्यसूचनार्थं तदिति चेन्न । भिन्नकर्तृकेषु मुनिग्रंथेषु मुनिवचनानां वैयर्थ्यानहत्वादेवंविधा गातरुचिता न त्वेककर्तृके ग्रंथे । तत्र हि पूर्वापरविरोधे अर्थातरं वा कार्यम् । ग्रंथांतरेण सहैकवाक्यता वा कार्या । तत्रायं वसिष्ठवाक्यस्वरसः । तुहिनकरमंदवारे इति वाक्यात् पापग्रहवारनिषेधो गौण इत्यनुमीयते तत्र तस्य गतिस्त्वेवं यदा वजन्मराशेरुपचये यो ग्रहः शुभो वाऽशुभो वा भवतु स सर्वदिक्षु हितः परं तु शूलदिशो विहाय यदात्वनुपचयस्थः स तु कुत्रापि न हितः । यदाहराजमा
Aho ! Shrutgyanam