________________
१५०
मुहूर्तचिंतामणी
स्मृतिर्यथा हंति तद्वद्दोषांस्त्रिंकोणगः । लत्तोपग्रहचंडीशचंद्रजामित्रसंभवान् ॥ तत्केंद्रगो गुरुर्हति सुपर्णः पन्नगानिव । तद्वच्चेति । तथा यदि पापाः क्रूराः विधुश्चंद्रस्तैर्युक्तो यो नवांशस्तद्दोषोऽपि नश्यति । उक्तं च । सक्रूरराशेरशुभो नवांशः प्रोक्तः सपापोऽपि विलग्नसंस्थः। त्रिकोणकेंद्रेषु गुरुः सितो वा यदा तदाऽसावशुभोऽपि शस्त इति ॥ ८९ ॥
अथान्यान्परिहारान् शालिन्याह
केंद्रे कोणे जीव आये रवौ वा लग्ने चंद्रे वापि वर्गोत्तमे वा ॥ सर्वे दोषा नाशमायांति चंद्रे लाभे तद्वदुहुर्मुहूर्ताशदोषाः ॥ ९० ॥
केंद्रे कोण इति ॥ केंद्रे सप्तमरहिते १, ४, १० कोणे नवपंचमे वा तत्र गुरौ सति सर्वे दोषा नाशमायांति । कश्यपः । काव्ये गुरौ वा सौम्ये वा यदा केंद्रत्रिकोणगे । नाशं यत्यखिला दोषा पापानीव हरिस्मृतेः ॥ अथवा | आये एकादशे रवौ सति सर्वे दोषा नाशमायांति । वा लग्ने चंद्रे वा वर्गोत्तमे राशिनवांशयुक्ते सति । यथा मिथुने मिथुनो नवांशस्तदापि दोषनाशः द्वितीयवाशब्दस्यानुक्तसमुच्चयार्थत्वात् । चंद्रो लग्नादुपचये सर्वदोषविनाशकः । उक्तं च । यत्रैकादशगः सूर्यो दोषा नाशं ययुस्तदा । स्मरणादेव रुद्रस्य पापं जन्मशतोद्भवम् || वर्गोत्तमगते लग्ने सर्वे दोषा लयं ययुः । चंद्रो वाप्यथवा येऽपि ग्रीष्मे कुसरितो यथा ॥ चंद्रेति । एकादशे चंद्रे सति दुर्मुहूर्ताशदोषाः दुर्मुहूर्ता वावर्यमेत्यादयः अंशदोषाः पापग्रहनवांशाख्यः ते सर्वे तद्वन्नाशमायांति । कश्यपः । मुहूर्तलग्नषड्डुर्गकुनवांशग्रहोद्भवाः । ये दोषास्तान्निहंत्येव यत्रैकादशगः शशी ॥ ज्योतिर्निबंधे । नक्षत्रदोषं कुनवांशदोषं गंडांतदोषं च मुहूर्तदोषम् । विरुद्ध पंचांगविरुद्धदोषं निशाकरो लाभगतो निहंति ॥ ९० ॥
अथ सामान्यतो दोषसमूह परिहारं शिखरिण्याह
त्रिकोणे केंद्रे वा मदनरहिते दोषशतकं
हरेत्सौम्यः शुक्रो द्विगुणमपि लक्षं सुरगुरुः ॥ भवेदा केंद्रेऽप उत लवेशो यदि तदा समूहं दोषाणां दहन इव तूलं शमयति ॥ ९१ ॥
त्रिकोणे इति ॥ त्रिकोणे सप्तमरहिते केंद्रे वा यदि सौम्यो बुधस्तिष्ठेत्तदा दोषशतकं हरेत् । उक्तस्थानस्थितः शुक्रोऽपि द्विगुणं दोषशतकं दोषद्विशतिं हरेत् । तथोक्तस्थानस्थितो गुरुरपि लक्षदोषान्हरेत् । भवेदिति अंगपो लग्नस्वामी उत वार्थे लवेशो लग्नगतनवांशनाथो वा आये केंद्रे यदि भवेत्तदा दोषाणां समूहं नाशयति । यथा दहनोऽग्निस्तूलं का
१ न कालजानित्यपि पाठः । २ चंद्र इत्यपि पाठः ।
Aho! Shrutgyanam