SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३ ] मानसोल्लासः। शङ्खप्रदेशे केशान्ता लिख्यते सा विचक्षणैः । केशान्ते परभागस्य ब्रह्मसूत्रस्य चान्तरम् ॥ ४३०॥ कलामात्रं विनिर्दिष्टं भ्रूलेखाऽर्धयवाधिका । भ्रूलेखा द्यगुला दृश्या नासामूलं चतुर्यवम् ॥ ४३१ ॥ कनिनी लुप्यते तत्र श्वेतभागश्च दृश्यते । दृश्यते त्रियवं ज्योतिरवशिष्टं विलुप्यते ॥ ४३२ ॥ ब्रह्मसूत्राच नेत्रीयमेवं सार्धाङ्गुलान्तरम् । नासामूलाद्वर्त्मरेखा बँक्रा कार्या विचक्षणः ॥ ४३३ ॥ ब्रह्मसूत्राद्वमरेखाप्रान्तो रुद्रंयवैर्मितः । यवद्वयं प्रलुप्येत पूर्वभागस्य चक्षुषः ॥ ४३४ ॥ करवीर(:)शि(सि)तो भाग इतरत् दृश्यते स्फुटम् । ब्रह्मसूत्रस्य नेत्रस्य सार्धमङ्गुलमन्तरम् ॥ ४३५ ॥ अक्षिकँटश्च शङ्खश्च कपोलो गण्डमण्डलम् । पिप्पली कर्णपाली च कर्णमूली प्रदृश्यते ॥ ४३६ ॥ कर्णगर्ने त्रिभागान्ते दृश्यते पूर्वभागतः । नासामध्यं ब्रह्मसूत्रोंच्चतुर्यवमुदीरितम् ॥ ४३७॥ परभागे कपोलस्था बहिर्लेखा चतुर्यौ । परभागस्थनेत्रस्य बुधैब्रह्मकपोलतः ॥ ४३८ ॥ ऊर्ध्व विनिर्गतं कार्यं परिमाणाद्यवद्वयम् । नासाग्रं परभागस्थं ब्रह्मसूत्रेऽङ्गुलं भवेत् ॥ ४३९ ॥ ब्रह्मसूत्रात्परे भागे घोणापुंटोऽङ्गुलं भवेत् । दृश्यतेऽथ यवो गोजी तदग्रेऽाधिको यवः ॥ ४४० ॥ उत्तरोष्ठः प्रकर्तव्यस्तत्समोऽप्यधरो भवेत् । हनुचक्रवहिलेखा तत्समा परिकल्पयेत् ॥ ४४१ ॥ ब्रह्मसूत्रात्परे भागे स्यातामोष्ठौ तथा हनुः। चतुर्यवमितादृश्याः पूर्वभागे यव(था)र्जुके ॥ ४४२ ॥ १ A. शदे । २ D. नी । ३ D त्रार्ध । ४ A. च । ५ A. द्ध । ६ D. ति। ७ A. रं । ८ B. D. शङ्खश्च कूटश्च । ९ A त्रिभागोन F कर्णेगर्तेभ्रिभोगोने B D कर्णगर्तत्रिभिर्भागो। १० A त्रं च । ११ D. विधा । १२ A. धब। १३ A. रो। १४ A गो। १५ B. D. F. धुं । १६ A. ध्व । १७ D. म । 'Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy