________________
मानसोल्लासः। .
[अध्यायः१
ranAna.wwwaunuwarana
हनुमण्डलतश्चाधो गलवृद्धिश्चतुर्यवा । ब्रह्मसूत्रात्परे भागे ग्रीवा लेख्या कलान्तरा ॥ ४४३ ॥ कन्धरास्कन्धसन्धेश्च गलवृद्धस्तथान्तरम। मात्रामात्रं प्रकुर्वीत हिक्का भागेन कल्प(लप्यते ॥ ४४४ ॥ ब्रह्मसूत्रात्परे भागे कक्षामूलं तु भागतः । कक्षामूलाहिः कार्य बाहुरेखाऽङ्गुलत्रयम् ॥ ४४५ ॥ ब्रह्ममूत्रात्परे भागे कला स्यात्कुचचूचुकम् । ऊर्ध्वभागः प्रदृश्येत बाहुरेखा ततो बहिः ॥ ४४६ ॥ अङ्गुलत्रितयोद्देशे करणीया विचक्षणैः । ब्रह्मसूत्रात्परे भागे मध्यदेश(क)कलामितः ॥ ४४७ ॥ ततो बहिर्वाहुरेखा व्यङ्गुला लिख्यते बुधैः । ब्रह्मसूत्रात्परे भागे भागः स्यावियवाधिकः ॥ ४४८ ॥ ततो भवेद्धाहुरेखा व्यङ्गुला कथिता शुभा। ब्रह्मसूत्रात्परे काञ्चीस्थानं पञ्चाङ्गुलायुतम् ॥ ४४९ ॥ ततो भवेद्धाहुरेखा व्यङ्गुला द्वियवाधिका । ब्रह्मसूत्रात्परे भागे बस्तिमस्तकपार्श्वगम् ॥ ४५० ॥ पञ्चाङ्गुलं प्रकर्तव्यं यवार्धाधिकतो बुधैः । सार्धयङ्गुलतः कार्या बाहुरेखा ततो बहिः ॥ ४५१ ॥ ब्रह्मसूत्रात्परे भागे बस्तिमस्तकपार्श्वगम् । पञ्चाङ्गुलं मेमूलं चतुर्यवसमन्वितम् ॥ ४५२ ॥ पञ्चाङ्गुले ब्रह्मसूत्राद् बस्तिपार्श्व परं भवेत् । ब्रह्मसूत्रात्परे भागे मेढ़मूलं चतुर्यवम् ॥ ४५३ ॥ तस्मादूशिरःसन्धिर्भवेत्पश्चाङ्गुलौन्वितः ।
ऊरू परे ब्रह्मसूत्रात्करणीयः(यौ) षडङ्गुले ॥ ४५४ ॥ १D.न्धेः च A न्धिश्च । २ A. द्धि । ३ F. चतुर्यवा। ४ D. येत् । ५ F ये A. र्या । ६ B D. तत्र । ७ A. अर्ध। ८ B. F.गे। ९ B D कुक्षौ । १० Fधः। ११ This stanza is found only in B and D। १२ D रू । १३ D लं त ।
Aho ! Shrutgyanam