________________
विंशतिः३j
मानसोल्लास।
मणिबन्धगता रेखा द्यङ्गुले द्वियवाधिके । अङ्गुष्ठपार्श्वगा रेखा ब्रह्मसूत्राद्दशाङ्गुले ॥ ४५४ ॥ ततोऽधस्तात्मदृश्येत पताकाकारकं तलम् । कनिष्ठा गुप्यते तत्र रेखया सक्थिमध्यया ॥ ४५५ ॥ पञ्चाङ्गुलं ब्रह्मसूत्रात्सक्थिमध्यं प्रकीर्तितम् । विप्रसूत्रात्परे भागे सक्थिमध्यं षडङ्गुलम् ॥ ४५६ ॥ ब्रह्मसूत्राद्भवेदांणि गेनैकेन कल्पिता । जानुशीर्षकलामानं जानोऽधस्ततोऽङ्गुले ॥ ४५७ ॥ शबस्तौ ब्रह्मसूत्रं तलं त्यक्त्वा प्रगॅच्छति । यवज्रयादगुलान्तं पादपृष्ठे च तिष्ठते ॥ ४५८ ॥ परभागे गते पादे मध्यमाक्रम्य गच्छति । पूर्वपादस्य पृष्ठे तु परपादस्य कोविदैः ॥ ४५९ ॥ भूमिरेखा प्रकर्तव्या पाणिस्तस्य विलुप्यते । नेत्रमात्रामितं दैर्ध्य परपादे प्रकल्प(लप्यते ॥ ४६० ॥ अर्घर्जुकाकृतिः कार्यः पादश्चित्रविशारदैः । परपादस्य कूर्चायाः पूर्वपादतलस्य च ॥ ४६१ ॥ मध्ये व्योम प्रदृश्येत मात्रया मात्रितं स्फुटम् । एकमङ्गुलमुत्सृज्य ब्रह्मसूत्रस्य प (पू) वेतः ॥ ४६२ ॥ ग्रीवा द्विभागिका लेख्या चित्रकर्मविशारदैः। पूर्वभागे प्रकुर्वीत कक्षामूलं च तालतः ॥ ४६३ ॥ कक्षामूलात्ततो बाहुभवेतिर्यग् विभागिः । ब्रह्मसूत्रात्कलामात्रे हृदयं पुरतः स्थितम् ॥ ४६४ ॥ हृदयाच्चूचुकं कार्य गोलकत्रैयदूरगम् । स्तनमेचकचक्रं तु लिख्यते वृत्तमायतम् ॥ ४६५ ॥
A लुप्य । २ B. D. त्पा । ३ B D. धातु । ४ B D. क्रं । ५ D. य । ६ F.या। " A क्रमा । ८ BF मक्रम । ९ F तत्र । १. D. क्रमायि । ११ A काः ! १२ A तः। १३ DE..
Aho! Shrutgyanam