________________
मानसोल्लास।
[ अध्यायः१
मात्रामितं तु विस्तारे दैर्ध्य गोर्लकमादिशेत् । स्तनमण्डलतः कार्या बृहती चतुरमुला ॥ ४६६ ॥ ततः सप्ताङ्गुला लेख्या बाहुलेखा विचक्षणैः । बाहोरभ्यन्तरे रेखा निर्गत्य परिगच्छति ॥ ४६७ ॥ मध्यभागं परित्यज्य जघने सङ्गता भवेत् । मध्यस्य चाङ्गरेखाया भवेत्व्यङ्गुलमन्तरम् ॥ ४६८ ॥ श्रोणेश्च भुजरेखाया अन्तरं भाग इष्यते । ब्रह्मसूत्राद्भवेच्छोणी पूर्वभागे दशाङ्गुलम् ॥ ४६९ ॥ एकादशाङ्गुलः काञ्चीगुणदेशः प्रकल्प (लप्य) ते । पूर्वभागे प्रकोष्ठः स्यात् सूत्रादेकादशाङ्गुलं ॥ ४७०॥ नितम्बो गुप्यते तत्र प्रकोष्ठेन निगृहितः । बहिर्भागे प्रदृश्यं स्यात्स्फिक्कुट मणिबन्धतः ॥ ४७१ ।। अर्धाङ्गुलप्रमाणेन पञ्चमीचन्द्रसन्निभम् । सूत्रात्तु मेहनं कुर्यात्कलामात्रेण कोविदः ॥ ४७२ ॥ मेहँनाद् द्यङ्गुले श्रोणिः श्रोणेरष्टाङ्गुले भुजः। पताकासन्निभः कार्यो दृश्यः पृष्टकरो बुधैः ॥ ४७३ ॥ कनिष्ठानखतो लेख्या सक्थिरेखा बहिर्गता । सूत्रतो यमुलं कार्यमूरुमूलं विचक्षणैः ॥ ४७४ ॥ पुरोदेशस्थितः सूत्रादौणिदेशस्तु भागतः । श्रोणिदेशाद्धहिलेखा भवेदष्टाङ्गुलैर्मिता ॥ ४७५ ॥ जानुकाटिका लेख्या ब्रह्मसूत्रात्पडङ्गुला। पराङिजानुसन्धौ तु पूर्वजानु व्यवस्थितम् ॥ ४७६ ॥
गुलं तत्प्रमाणेन लेखनीयं समासतः ।
जानुचक्रावहिर्लेखा लेखनीया षडङ्गुले ॥४७७॥ ... D रो। २ D कर्ण । ३ A ना। ४ B द्वय D द। ५ B. F. र्जानुज । ६ A लं । ७ B. लु। ८ A. D. कू। ९ A. भः । १० A. महता । ११ D. शक्ति । १२ D. त्पा । १३ D. गो। १४ A. तंश्च क्रिया, श्वकृतका D तः कृकाटिका । १५ D यो । १६ A लं।
Aho ! Shrutgyanam