________________
विंशतिः३]
मानसोल्लासः। सार्धपञ्चाङ्गुलं तत्र जडामध्यं प्रकीर्तितम् । .. द्यर्धाक्षि वक्ष्यते स्थानं लक्ष्यलक्षणसंयुतम् ॥ ४७८ ॥.. एकत्रैकाङ्गुलं यस्मिन्नन्यत्रैकादशाङ्गुलम् । मध्ये द्यर्धाक्षिकं स्थानं लम्बसूत्रक्रमो भवेत् ॥ ४७९ ॥ केशान्तान्नासिकानाच्च कक्षामूलाच नाभितः । ऊरुमध्यात्पार्श्वसूत्र मूलेऽङ्गुष्ठस्य संसृतम् ।। ४८० ॥ सीमन्ततो भ्रुवोर्मध्याह्मसूत्रं विनिर्गतम् । गोपयेदग्रतः कक्षामूले देशा(शोऽ)थ मात्रया ॥ ४८१ ॥ अङ्गुलं'नाभितस्त्यक्त्वा लिङ्गपाश्चाविषाणि(णिदेश)तः । अङ्गुष्ठोपान्तदेशाच्च पूर्वमध्याङ्गुली व्रजेत् ॥ ४८२ ॥ अन्यपार्श्वगतं मूत्र मूर्धपृष्ठाद्विनिर्गतम् । कन्धरास्कन्धसन्धेश्च मध्यदेशेन सङ्गतम् ॥ ४८३ ॥ मणिबन्धात्तर्जनीतः पूर्वपादस्य पाणितः । क्रमेणैवं प्रकुर्वीत सूत्रत्रयमितीरितम् ॥ ४८४ ॥ ब्रह्मसूत्रात्परे भागे केशान्तश्चौधगोलकः। अङ्गुलं च तथा दृश्या भ्रूलेखा यवतोधिका ॥ ४८५॥ ततः सूत्रात्परे भागे ब्रह्मसूत्रश्च (नेत्रदेशश्च ? ) षड्यः । ततश्च निर्गतं वर्त्म ध्व(उर्ध्व)भागे यवद्वयम् ॥ ४८६॥.... नासामूलस्थितात्सूत्रान्नेत्राग्रं परभागि:म् । दृश्यते षड्यवं तत्र त्रियवं कृष्णमण्डलम् ॥ ४८७ ॥ त्रियकैः ( वः ) श्वेतभागः स्याल्लप्यते करकस्तथा । नासामध्यात्तथा दृश्यं कपोलं त्रिय स्फुटम् ॥ ४८८ ॥
१ FD ई । २ A भि। ३ A ध्यं, र्द्धीक्षियव । ४ A कस्थाने । ५ A B त्र। ६ A स्मृता B सृतः। ७ B D F मि। ८ A B F गोहेपीहत्वतःकक्ष्या A गोपयेत्त्वग्रतः, मोहेर्हन्वग्रतः। ९ A लें। १० A ले, नं। ११ D श्वाद् A व । १२ A ली। १३ ऊर्ध्व। १४ A न्थि । १५ A मालकाः। १६ F भू । १७F वा। १८ A. B. D. तत्र। १९ A न्तेवाग्रं B प्रागन । २० A का । २१ D यः। २२ A यत्र करकः । २३ D. F. वः।।
Aho! Shrutgyanam