SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ३८ मानसोल्लासः । अन्तरं ब्रह्मसूत्रस्य पक्षसूत्रद्वयस्य च । साचिस्थाने' समाख्यातें ऊर्ध्वसूत्रस्थितिक्रमः || ४१८ ॥ इदानीं लक्ष्यतेऽस्माभिः साचिरूपविनिर्णयः । ललाटाल्लोचनप्रान्तात्कपोलस्कन्धदेशतः ।। ४१९ ॥ एकाङ्गुलात्स्तनस्यान्तर्नाभे:सार्धाङ्गुलाद्बहिः । वङ्गणान्मणिदेशाच्च बहिर्व्यक्तं विनिर्गतम् ॥ ४२० ॥ परपादाङ्गुष्टमूले पार्श्वसूत्रं विधीयते । सीमन्ताच्च भ्रुवोर्मध्यान्नासारन्ध्रस्य मध्यतः || ४२१ || अङ्गुलाद्बोधतः पञ्चान्नाभिरन्ध्रस्य मध्यतः । मेहनस्य बहिर्भागाज्जानुमण्डलपूर्वर्तः ॥ ४२२ ॥ नलकस्य तथा प्रान्ताद् ब्रह्मसूत्रं न्यसेत् क्रमात् । मस्तकस्य तथा पृष्ठात्कर्णोपान्तात्तथैव च ॥ ४२३ ॥ कन्धरास्कन्धसन्धेश्च स्तनचूचुकमण्डलात् । अङ्गुलात्पूर्वतश्चैव मध्यभागेन सङ्गतम् ॥ ४२४ ॥ कलामात्रं परित्यज्य काचीदेशस्य मध्यतः । मणिबन्धगतं तद्वत्पूर्वपादस्य पाणिः || ४२५ ।। अन्यपार्श्वगतं सूत्रं क्रमेणैव निरूपितम् । ब्रह्मसूत्राद्बहिर्लेखा केशान्ते परभागका || ४२६ || लिख्यते तु कलामात्र मस्तकं सार्धमङ्गुलम् | भाग एकः प्रदृश्यः स्यादुत्सेधः पूर्वभागिकः ।। ४२७ ॥ उत्सेधाच्च कलामानाद्बहिर्लेखा शिरःस्थिती | उत्सेधैप्रान्ततो रेखा भागद्वयकृतान्तरीं ॥ ४२८ ॥ ततः शरासनाकाराः(रा) कर्णावर्ताग्रगामिनी । लिख्यते शिरसो लेखा भागद्वयकृतान्तरा || ४२९ ॥ १ A. न । २ D. नं मू । A चि । ८ A ते । ९ D ि। [ अध्यायः १ ३ A भि । ४ A वृषणादा F. वंक्षणादा । ५ A. । ६D. वत् । १० D नान् । ११ Aकः । १२ D ताः । १३ A धः प्रा । १४ A गाः । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy