________________
विंशतिः ३]
मानसोल्लासः ।
एकादशाङ्गुला पूर्वे भागे लेख्या विचक्षणैः । मेदमूलं परे भागे मात्रा भागयुग्मकम् ॥ ४०६ || दशाङ्गुलं पूर्वभागे लेखनीयं विशारदैः । लिङ्गमूलात्परे भागे वङ्खणं सार्धमकुलम् ॥ ४०७ ॥ अङ्गुलद्वितयं सार्द्धं पूर्वभागे तु वङ्क्षणः । णात्परभागस्थैमूरुशीर्ष बहिः स्थितम् ॥ ४०८ ॥
अष्टाङ्गुलं परे भागे पूर्वतन्तु (स्तु) दशाङ्गुलम् | परस्थमूरुमूलं तु कुर्यादङ्गुलगूहितम् ॥ ४०९ ॥ पूर्वस्थितोरुमूलेन चित्रलेखनकोविदैः । जानुमण्डलतो बाह्यं कलामात्रं प्रदृश्यते ॥ ४१० ॥
परभागे परे पादे पूर्वभागे कलाद्वयम् । पूर्वस्याङ्गेरिदं मानं विपरीतं . प्रदृश्यते ॥ ४११ ॥
इतरत्सर्वमृजुवत्परंजङ्गागतं भवेत् । पूर्वभागेऽङ्गुष्ठमूलं परपोष्णिसमं लिखेत् ॥ ४१२ ॥
खापरपादस्य भूमिसूत्रं विधीयते ।
पार्ष्णः प्रदेशिनी (नीं) यावत्पाददैर्ध्य य (न) वाङ्गुलम् ॥ ४१३ ।।
परार्धाङ्गुष्ठैतैश्चोर्ध्वमङ्गुलं” परिकल्पयेत् । प्रदेशिन्या समारभ्य कनिष्ठां यावदङ्गुलिः । ४१४ ॥ यवद्वय विनाग्राः स्युरङ्गुल्यः क्रमविस्तृताः । भूमिसूत्रादधोऽङ्गुल्योऽङ्गुष्ठं (च) परिकल्पयेत् ॥ ४१५ ॥ कनिष्ठाग्रं तथा कार्यं भूमिमूत्रसमं यर्थौ । अर्धर्जुकमितिस्थानं क्रमशो लक्षणान्वितम् ॥। ४१६ ।।
साम्प्रतं क्रमशः प्राप्तं साचिस्थानं निगद्यते । अङ्गुलानि दशैकत्र कलामांत्रं ततोऽन्यतः || ४१७ ॥
३७
१ Aर्व । २ A वृषणं । ३ A तु वृषणम् । ४ A वृषणात् । ५ A स्तु । ६ F. खे । ७ A. रा । ८ A
गा । ९A मार्ष्टि । १० B. D. नेत्राग्रे परि । ११A लः । १२ A लतश्चार्थे अ । १३ A य । १४ A गुल्फम । १५ A त्रं । १६ A तथा । १७ D. त्रां ।
Aho! Shrutgyanam