________________
३६
मानसोल्लासः।
[ अध्यायः १
सार्दाडलं प्रदृश्यं स्याच्छ्रवणे(ण)पूर्वभागतः । नासिकाग्रं यवाः पञ्च परभागव्यवस्थितम् ।। ३९४ ॥ यवत्रयं पुटस्तस्य ब्रह्मसूत्रादिति स्थितिः । नासापुटात्कपोलस्य सार्द्धद्वयङ्गुलमन्तरम् ॥ ३९५ ।। परभागौष्टयुग्मस्य मात्रा सा(स)द्वियवा भवेत् । हनुश्चैव तथा ग्रीवा परभागेऽङ्गुलद्वयम् ॥ ३९६ ॥ ब्रह्मसूत्रात्परो(रे)भागे ग्रीवा दृश्या षडङ्गुला। ब्रह्मसूत्रात्परे भागे हिक्का मात्रान्तरा भवेत् ॥ ३९७ ।। हन्वग्रात्परभागेंशमव(समध)स्थादङ्गुले लिखेत् । बन्धुस्था(स्थ)ब्रह्मसूत्रार्ध (त्रं च) परभाग(गः)स्थितस्ततः॥ ३९८ ॥ पञ्चाङ्गुले प्रेकर्तव्यः पुरःसप्ताङ्गुलान्तरे । कक्षामूलाहिर्लेखा बाहुमूलसमाश्रिता ॥ ३९९ ॥ अष्टाङलान्तरा लेख्या चित्रकर्मविशारदैः । कक्षाद्वितयमध्ये स्यादङ्गुलानां च विंशतिः ॥ ४०० ॥ पश्चाङ्गुलै(लं)परा(रे )भागे बाहुमूलं प्रकल्पयेत् । चुचुकात्परभागस्था बृहती द्वयङ्गुले लिखेत् ॥ ४०१ ॥ पूर्वभागं (गे) कलाद्वन्द्वे" बहिर्लेखों शरीरगाम् । विस्तारे परभागस्थश्च(च)तुर्दशयवस्ततः ॥ ४०२ ॥ आयतोऽयं बुधैः कार्यों वृत्त(त्तः)पूर्वकलामितः । पार्श्वसूत्रे तु संलग्ना मध्यभागगता बुधैः ॥ ४०३ ॥ लेखनीया बहिर्लेखा पूर्वभागसमाश्रिता । ता(सा)निर्गता तथा श्रोणी सार्धपञ्चाङ्गुला परौं ॥ ४०४॥ पूर्वभागे तथा श्रोणी भवेद्दशभिरङ्गुलैः। ब्रह्मसूत्रात्तथा काञ्ची परभागे षडङ्गुला ॥ ४०५॥
१ A. ल । २ A. यां । ३ A. यव । ४ D. भे. A. गो। ५ A. गो। ६ D. F. द्वि B. द्धि । ७ B. F.हिक्का। ८ F. बा D. बन्ध । ९ A. न कर्तव्ये B न कर्तव्यं । १० D. F. तु । ११A. ले। १२ A. चिबु । १३ A गस्याब्रु । १४ A लं । १५ F न्द्रं । १६ F ख्यं । ७ A. ताः । १८ B रे।
Aho! Shrutgyanam