________________
विंशतिः ३ ]
मानसोल्लासः ।
अथार्धर्ज्जु (र्जु) प्रवक्ष्यामि स्थानकञ्च क्रमागतम् । अन्तरं ब्रह्मसूत्रस्य पक्षसूत्रस्य चैकतः ।। ३८२ ।।
अष्टाङ्गुलं ततोऽन्यत्र चतुरङ्गुलमन्तरम् । उक्तेर्जु स्थाने लम्बसूत्रक्रियाक्रमः || ३८३ ॥ इदानीं सम्प्रवक्ष्यामि सार्चिसूत्रस्य लक्षणम् । अपाङ्गात्कर्णपाल्याश्च स्तनस्यान्तरपार्श्वतः ॥ ३८४ ॥ जानुत्रिभागतो गर्ह्य जङ्घामान्ताद्विनिर्गतम् । परभागगते पादे कल्पि (ल्य ) तेऽङ्गुष्ठमूलतः || ३८५ ॥
स्तनबाह्यप्रदेशाच्च कुचचूचुकतो बहिः । जानुतः पञ्चमांशेन बहिर्भागे व्यवस्थितम् || ३८६ ॥
सर्वपादेतु मध्याया अनामायाश्च मध्यगम् । स्यातामेवं पक्षपा (सूत्रे ब्रह्मसूत्रं तु कथ्यते ॥ ३८७ ॥
ललाटे च भ्रुवोर्मध्ये नासाग्रे बन्धो बहिः । नाभिरन्धं (न्ध्र) बहिःपार्श्व(र्श्वे ) लिङ्गमध्ये समागतम् ॥ ३८८ ॥
परभागगतस्याग्रं मुख(जेर्गुल्फ - ) स्योपरि सङ्गतम् । ब्रह्मसूत्रकारोऽयं भागेनैकेन संयुतः ॥ ३८९ ॥
कथितोऽथ प्रदेशानां सन्निवेशोऽभिधीयते । परभागे प्रदृश्येत कर्णावर्त्तो यवद्वयम् ॥ ३९० ॥
इतरलुप्यते सर्व तत्पाली दृश्यते मनाक् । शङ्खश्चैवाक्षिकूटश्च कूर्चमूलं तथैव च ॥ ३९९ ॥ लुप्यते परभागे तु स्थानकेऽर्धर्जुसंज्ञिते । पञ्चाङ्गुलं बाहुमूलं परभागे प्रशस्यते ।। ३९२ ॥
परभागमतश्चापि किञ्चित्तिर्यग वहिर्भवेत् । कर्णावर्तस्य यः प्रान्तः पूर्वभागे स लुप्यते ॥ ३९३ ॥
१ D अर्द्धार्जुकं । २ D ची । ३ Aमा । ४ A. बाधतो । ५ F. सु । ६ A. गो । D. दृश्य । ९D. भि: Bभि ।
Aho! Shrutgyanam
D. नेर्जु