________________
३४
मानसोल्लासः ।
ततोऽग्रे जीवहीनं तु नखाग्रं परिकल्पयेत् । सजीवो लोहितः किञ्चिनिर्जीवो मधुरच्छविः ।। ३७० ॥
यवत्रितयमानेन नखाग्रं परिकल्पयेत् । प्रदेशलक्षणं प्रोक्तं स्थानानां लक्ष्यते तथा ।। ३७१ ॥
पञ्चानाञ्च चतुर्णाश्च तथाष्टानां यथाक्रमम् । ऋजु स्यात्सम्मुखं स्थानमन्यदर्द्धर्जुसंज्ञितम् ॥ ३७२ ।।
तृतीयं स्थानकं साचि तुर्य द्यर्धाक्षिसंज्ञितम् । पञ्चमं भित्तिकं प्राहुर्मज्जा (स्तज्ञाः) पार्श्वगतं च तत् ॥ ३७३ ॥
पञ्चस्थानानि मुख्यानि कथितानीह संज्ञया । ऋज्वादिपदपूर्व स्यात्परावृत्तं चतुर्विधम् ॥ ३७४ ॥
स्थानकानि नवैर्वै स्युचित्रलेखाविधिं प्रति । नवस्थानकमध्ये स्युष्टौ ( ष्टाव ) न्तरसंज्ञया ॥ ३७५ ॥
तेषां तु लक्षणं वक्ष्ये ब्रह्मसूत्र विभेदतः । पुरतः पूर्वभागः स्यात्परभागस्तु पृष्ठतः || ३७६ || प्रमाणो वृद्धिभागो हीनश्चेत् क्षयभागकः । चतुष्टयं प्रकाराणां व्यवहाराय दर्शितम् || ३७७ ॥
भूलोकमल्लदेवेन बोधार्थ शिल्पकारिणाम् ।
ब्रह्मसूत्राद्बहिः सूत्रे षड़ (ट्पड ) ङुलमध्यमे || ३७८ ॥
यत्र स्याँमामृजु (तदृजु) स्थानं रूपं स्यान् मुखयोगितम् (सांमुख्य योगि तत्) ।
सम्मुखं स्यादृजुस्थानं परभागोऽत्र नेष्यते ।। ३७९ ।।
पूर्व भागगतं गात्रं सम्पूर्ण दृश्यते स्फुटम् । कर्णौ मात्रामितावत्र शङ्खावंकुल सम्मितौ ॥ ३८० ॥
[ अध्यायः १
पादौ भागमितौ दृश्यावङ्गुल्यश्च विभागिकाः । ऋजुस्थानमिदं प्रोक्तमवक्राकारधारणात् ।। ३८१ ॥
१ A प्रथ । २ A भक्ति । ३ D यत् । ४ A नचैव । ५Dव । ६ Aय B अ । ७D श्याममृजु
B श्यामा । ८ A सामुख ९द । १० B. D. क्तं मेचका । ११F का ।
Aho! Shrutgyanam