________________
विंशतिः३]
मानसोल्लास: मध्यमादैर्घ्यमुद्दिष्टं यवों द्वाविंशतिर्बुधैः । कनिष्ठादैयमाख्यातं सप्तभिर्दशभिर्यवैः ॥ ३३५ ॥ परीणाहस्तु तस्याः स्याद्यवानामेकविंशतिः। आयामोऽनामिकायाश्च यवा विंशतिरिष्यते ॥ ३३६ ॥ अनामिकापरीणाहः कार्योऽष्ट (ष्टा)दशभिर्यवैः । कनिष्ठादैर्घ्यमाख्यातं सप्तभिर्दशभिर्यवैः ॥ ३३७ ।। कनिष्ठायाः परीणाहो यवाः पञ्चदश स्मृताः। . पर्वत्रयं तु सर्वासामङ्गुलीनां प्रकीर्तितम् ॥ ३३८ ॥ सर्वासा पादशाखानामग्रपर्वार्धतो नखाः। अर्धाङ्गुलं समुत्सेधः सर्वासामग्रतो भवेत् ॥ ३३९ ॥ कन्धरास्कन्धसन्धेस्तु पश्चाद्भागे कृकाटिका । कृकाटीदेशतः कक्षामूलमेकादशाङ्गुलम् ॥ ३४०॥ स्कन्धाभ्यां निर्गता (तौ ) वंशफलकों (को) पट्क्षडङ्गुलौ । तयोर्मध्ये भवेद्वंशः कलामात्रप्रमाणकः ॥ ३४१ ॥ उत्तानकदलीपत्रसन्निभः पष्ठवंशकः। तदेवं पृष्ठभागस्य स्वरूपं परिकीर्तितम् ॥ ३४२ ॥ कक्षायाः कूपरं यावद्धाहुपति कथ्यते । अष्ठादशाङ्गुलं दैध्यमांनाहेऽष्टादशाङ्गुलम् ॥ ३४३ ॥ कूर्परात्तलपर्यन्तं पर्व सप्तदशाङ्गुलम् । परीणाहः प्रबाहोस्तु पोडशाङ्गुलसम्मितः ॥ ३४४ ॥ प्रकोष्ठस्य परीणाहश्चतुर्दशभिरङ्कुलैः । मणिबन्धपरीणाहः कर्तव्यो द्वादशाङ्गुलः ॥ ३४५ ॥ विस्तारस्त्रिकलो बाहोः कूपरेऽङ्गुलपञ्चकम् । परीणाहस्त्रि(त्रि)भागेन प्रबाहोविस्तृतिर्मता ॥ ३४६ ॥
१.A.Bहै । २ B. व । ३ A है । ४ A मे । ५ BD F तो।६ B काः D कः । ७ A षडद । CDध्यं । ९ A न्तः B तः। १० Aध्ये मानेऽप्य । ११ A राङ्ग। १२B कः। १३ F विस्तति। ।
Aho ! Shrutgyanam