________________
मानसोल्लासः।
[अध्यायः १
जङ्घामूलपरीणाहों भवेदष्टादशाङ्गुलः । जङ्घाप्रान्तपरीणाहश्चतुर्दशभिरङ्कुलैः ॥ ३२३ ॥ ततोऽधो गुल्फदेशः स्यानाहः स्यात्षोडशाङ्गुलः । चतुर्दशाङ्गुलं दैर्ध्य चरणे गणितं बुधैः ।। ३२४ ॥ उच्छायः पाणिदेशस्य गणितश्चतुरङ्गुलः। तिर्यसूत्रं समं पाऎस्यङ्गुलं समुदाहृतम् ॥ ३२५ ॥ पाणिदेशस्य विस्तारो भवेत्पञ्चभिरङ्कुलैः। भागमात्रॉन्तरादूर्ध्व पाणितो भागतः पुरः ॥ ३२६ ॥ गुल्फो द्वयङ्गुलकौ कायौं विस्तारेण समन्ततः । पादपृष्ठं तु कर्तव्यं प्रोन्नतं गजपृष्ठवत् ।। ३२७ ॥ तस्याधस्तलदेशस्तु निम्नोऽभ्यन्तरतो भवेत् । बहिर्भागे समं कार्य पाणेर्यावत्कनिष्टकम् ॥ ३२८ ॥ अङ्गुलं(ष्ठ )मूलदेशे तु तलं कार्य समुन्नतम् । पादाग्रतलविस्तारः षडङ्गुल उदाहृत्तः ॥३२९ ॥ पाष्णेश्च तलविस्तारः कथितश्चतुरङ्गुलः। पादपृष्ठस्य चोत्सेधो भागस्त्वर्धाङ्गुलाधिकः ॥ ३३० ।। अग्रपादस्य चोत्सेधस्व्यङ्गुलः समुदाहृतः ॥ अङ्गुष्ठमूलदेशस्य व्यङ्गुल स्यात्समुच्छ्रयः ॥ ३३१॥ अङ्गुष्ठस्य समुत्सेधो मात्रास्याट्वियवाधिका।। अङ्गुष्ठदैर्घ्यमुद्दिष्टमङ्गुलद(त्र)यसम्मितम् ॥ ३३२ ॥ अङ्गुष्ठस्य परीणाहो भवेत्पञ्चभिरङ्गलैः । द्विपर्वाङ्गुष्ठमुद्दिष्टं प्रान्तपर्वार्धतो मु(न)खः ॥ ३३३ ॥ तर्जनीयमुद्दिष्टं त्र्यमुलं द्वियवाधिकम् । अ(व्य)ङ्गुलस्तु परीणाहस्तस्याः पर्वत्रयं भवेत् ॥ ३३४ ॥
A हो । २ A. लः । ३ A. ना । ४ B छु ।५ B त्रत । ६ D. F. न । ७ D. पाणि 1 CA मु । ९F.गे। १० BD. अ। ११ A.ष्ट्रय । १२ F.प्रांतं । १३ BD टम । १४ A स्य। १५ D. स्य।
Aho! Shrutgyanam