________________
विंशतिः३]
मानसोल्लासः।
विनिर्गते कलामात्रे तयोर्मध्यं वि(द्वि)भागिकम् । रेखयोः प्रान्ततो बस्तेविस्तारः स्यात् षडङ्गुलः ॥ ३११ ॥ भाग एको लिङ्गदैर्ध्य मणिरेकाङ्गुलस्ततः । षडङ्गुलः परीणाहो मणिमूलेऽधिको मैनाक् ॥ ३१२ ॥ मुष्कयो गिकं दैर्ध्य तदर्थं बीजसंयुतम् । त्वमेव मूलभागः स्यात् तन्निम्नांशा प्रकल्प(लप्यते ॥ ३१३ ॥ मुष्की सबीजको वृत्तौ भागद्वयविभागितौ । तालमात्रपरीणाही कर्तव्यौ शिल्पकोविदः ॥ ३१४ ॥ अधस्तानीतसूत्रस्य लग्ने स्यातां कुंकुन्दरे । पश्चाद्भागे प्रकर्तव्ये भागद्वयकृतान्तरे ।। ३१५ ॥ वस्तिमस्तकसूत्रस्य कटिसूत्रस्य चान्तरम् । फलकाकृति कर्तव्यं पश्चाद्भागं (गे) च शिल्पिभिः ॥ ३१६ ॥ बस्तिमस्तकसूत्राच लिङ्गाग्रपरिमाणकें । स्फिजौ चैव विधातव्ये करिकुम्भसहोदरे ॥ ३१७ ॥ स्फिजोरधः परीणाहस्रयस्त्रिंशन्मिताङ्गुलः । ऊरुमध्यपरीणाहः कार्यः पत्रिंशदङ्गुलः ॥ ३१८ ॥ श्रोणी(आणि देशपरीणाहो भवेत्तालद्वयान्वितः । क्रमशो हीयमानौ तावूरू कार्यों विचक्षणैः ॥ ३१९ ॥ अरोमको वलीशून्यौ रम्भास्तम्भकृतोपमौ । श्लक्ष्णौ मनोहरौ वृत्तावूरू कार्यों विचक्षणैः॥ ३२० ॥ ततस्तु जानुनी कार्ये चतुरङ्गुलमायते । अङ्गुलत्रयविस्तारे तत्पाश्चौं द्विकलौ मतौ ॥ ३२१ ॥ परीणाहो विरच्यः स्यादङ्गुलान्येकविंशतिः । पश्चाद्भागे मनाग्निम्ने मध्ये किञ्चित्समुन्नते ॥३२२॥
१ B वितम् D विकम् । २ A योब। ३ F ल । ४ BDF भवेत् । ५ D दिमासा। ६ D येत् । ७ A क । ८ B. F. कैः A. कं । ९ A म । १० A. ड्विं । ११ F omits this stanza |
Aho! Shrutgyanam