________________
२८
मानसोल्लासः।
[अध्यायः १
बन्धस्य पार्श्वयोस्तियविस्तारस्तु द्विभागिकः । चतुर्यवसमोपेतस्त्वेवं सप्तदशाङ्गुलः॥ २९९ ॥ बन्धुदेशपरीणाह एकपश्चाशदङ्गुलः । ततोऽधो मध्यभागस्तु प्रोक्तो मनुमिताङ्गुलः ॥ ३००॥ मध्यभागपरीणाहों द्विचत्वारिंशदँडलः। नाभिदेशस्य विस्तारो भवेच्चन्द्रकलाङ्गुलः ॥ ३०१॥ नाभिस्थाने परीणाहो भवेत्तालचतुष्टयम् । श्रोणीदेशः स विख्यातः कायस्थानपरीक्षकैः ॥ ३०२ ॥ पक्काशयगते सूत्रे विस्तारोऽष्टादशाङ्गुलः । पक्काशयपरीणाहश्चतुष्पश्चाशदङ्गुलः ॥ ३०३ ॥ स प्रदेशः कटिर्नाम काञ्चीदामविधारकः । स्त्रीणां चेदधिकः कार्यों भागेनैकेन कर्तृभिः ॥ ३०४॥ वस्तिमस्तकमूत्रस्य सप्तपञ्चाशदङ्गुलः। परीणाहो" विधातव्यः सूचीभागेन विस्तृतः ॥ ३०५॥ बस्तेस्थानस्य विस्तारो विंशत्यङ्गुलसम्मितः । तस्य प्रोक्तः परीणाहः षष्ठेचैङ्गुलमितो बुधैः ॥ ३०६॥ जठरं वक्षसा युक्त कार्य गोमुखसन्निभम् । स्त्रीणां मध्ये कृशं कार्यं नाहेर्ने त्रिंशदङ्गुलम् ॥ ३०७॥ भागेनैकेन तस्याधो लिङ्गमूलं प्रकल्पयेत् । पश्चाङ्गुलं लिङ्गदैर्ध्य मुष्कयोश्चतुरङ्गुलम् ॥ ३०८ ॥ लिङ्गस्य मूलविस्तारः कलामात्रो निगद्यते । पार्श्वयोरुभयोस्तस्य मुष्कमूलं द्विमात्रिकम् ॥ ३०९ ॥ एवं च लिङ्ग कस्य मूलं स्याच्चतुरङ्गुलम् ।
मूलोपान्ते प्रकर्तव्ये द्वे रेखे वंक्षणाश्रिते ॥ ३१० ॥ १ A. बाध । २ A लम् F. ला। ३ A शे। ४ B कं । A1 ५A कःपञ्चदशाङ्गुलः B. कं पञ्चदशाङ्गुल लं।६ B था। - Dहः । ८ A दशाङ्गुलल: D. दशाङ्गुलः, । ९ B. D. ञ्च दशा। १० A मो। ११
B.D.तिः। १२ A विास्तस्तस्य च D. बस्तश्च स्थान । १३ A 5 । १४ Aध्यं । १५ AF. दे। १६A मूलस्य । १७ A ख्यस्य । १८ A स्तु।
Aho! Shrutgyanam