________________
विंशतिः ३]
मानसोल्लासः।
२७.
Kmvha..
हिक्कायाः पार्श्वयोर्लग्ने जत्रुणी भुजमूर्ध्वगे' ( मूर्धगे )। एकादशाङ्गुले प्रोक्ते किश्चिदुन्नतविग्रहे ॥ २८८ ॥ हिक्कायाः कक्षमूलाच स्तनचूचुकबन्धुतः । मध्ये वक्षःस्थलं प्रोक्तं तालमात्रं समंततः ॥ २८९ ॥ द्वयोर्चचुकयोमध्ये तालमानमुदाहृतम् । कार्यं चूचुकयोवृत्तं मेचकं द्वयङ्गुलं भवेत् ॥ २९०॥ चुचुको मण्डलस्यान्तर्यवमात्रो निगद्यते । उत्सेधाद्विस्तृतेस्तद्वत्प्रमाणं परिकीर्तितम् ॥ २९१ ॥ स्त्रीणां तु द्वियवः कार्यश्चूचुकश्चित्रकोविदः । प्रोक्त(:)स्तनपरीणाहैः स्तनमष्टादशाङ्गुलम् ॥ २९२ ।। बृहतीनामतः ख्यातं कक्षमूलस्तनान्तरम् । षडङ्गुलं च मानेन सूत्रितं सूत्रकोविदः ॥ २९३ ॥ स्तनद्वितयमध्यस्थः किञ्चिनिन्नः कलामितः । प्रदेशे (शो) बन्धुरित्युक्तश्चित्रशास्त्रविशारदैः ॥ २९४ ॥ कन्धरास्कन्धसन्धिस्तु वाहुमूर्धनि भागकः । पूर्वापरे कक्षमूले मू(ता)लेनैकेन सम्मिते ॥ २९५॥ अभ्यन्तरे तथैव स्यात् ताल एको निरूपितः । कक्षमूलैंपरीणाहस्तदेव(व)स्याहितालकः ॥२९६ ॥ बाहुशीर्षस्य बाहोश्च सन्धिस्थानं निरूपितम् । कामूलात्कलाद्वन्द्वं तिर्यसूत्रप्रमाणतः ॥ २९७ ॥ बन्धुदेशाद् भवेन्नाभिस्तालेनैकेन मापिता । नाभिरङ्गुलविस्तारा वर्तुलार्धाङ्गुलाँवटा ॥ २९८ ॥
१D तु । २ F ाते। ३ B. F ता । ४ B. D. F. व्यं । ५ A त्र। ६ A श्चिबु। . A द्विगणं । ८ A चिबु । ९A न्तं पञ्चमात्रा । १० A त । ११ A क्त स्था। । १२ A ह। १३ D. लं.१४D. म्न । १५ A. वे । १६ A. न्ध । १७ B. D. ले । १८ B. D. श्च । १९F.क्षा। २.B.D. क्ष। २१ Bन्ध । २२ A. त्ता। २३ A. द्वय । २४ A लोचय । B. D. ला च या।
Aho! Shrutgyanam