SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [ अध्याय १ निर्गच्छति ततः कूर्च तद्रेखामात्रया मितम् । कुर्वत्रे (चरे) खा भ्रुवोः प्रान्तमध्ये स्यादङ्गुलद्वयम् ।। २५३ ॥ स एव सङ्ख्यो (शङ्खो) विख्यातः प्रदेशविधिकोविदः । पिप्पल्याः कूर्चरखाया भवेदङ्गुलमन्तरम् ॥ २५४ ।। एवं ललाटविन्यासः कथितः सोमभूभुजा । अर्धाङलंध्रुवोर्मध्यान्नासामूलं निरूप्यते ॥ २५५ ॥ किञ्चिल्ललाटतो निम्नं तस्य पार्श्वे कनीनिके । समन्तान्नेत्रयो गर्तावक्षिकूपौ च कल्पितौ ॥ २५६ ॥ अर्धाङ्गुल प्रमाणे (णौ) तौ नेत्रवर्त्मबहिः स्थितौ । अर्धाङ्गुलप्रमाणेन नेत्रवर्त्मद्वयं भवेत् ॥ २५७ ।। निमीलनार्धवा च ( दूर्ववर्त्म ) भवेदङ्गुलसम्मितम् । त्रियवं पक्ष्मणां दैर्ध्य सादवा मकृमा (सान्द्रिमा वक्रिमा) शुभः ॥ २५८ ॥ अर्धाङ्गुलमिते स्यातां नेत्रमूले कनीनिके । यङ्गुलं नेत्रयोदैर्ध्य विस्तारः स्यात्तदर्धतः ॥ २५९ ॥ एवं पञ्चयवौ कार्यों शुक्लभागौ विचक्षणैः । तन्मध्ये मेचकं कुर्यान्मण्डलं वर्तुलाकृति ॥ २६० ॥ तच्च पञ्चयवं प्रोक्तं तन्मध्ये दृष्टिरिष्यते । वर्तुला यवमात्रा च पुत्रिका प्रतिविम्बिनी ॥ २६१ ॥ रक्तता प्रान्तयोः शस्ता तीक्ष्णताऽपाङ्गन्योः शुभा। मध्योन्नतं नेत्रगोलं का कार्य प्रयत्नतः ॥ २६२ ॥ आकारो नेत्रयोः कार्यों नीलोत्पलदलोपमः। अपाङ्गन्योरधः कार्यों कपोलौ द्वयङ्गुलौ मतौ ॥ २६३ ॥ कर्णपिप्पल(लि)देशान्तौ तिर्यसूत्रेण मापितौ । अपाङ्गपिप्पलीमध्ये पञ्चाङ्गुलमुदाहृतम् ॥ २६४ ।। Mss ता । २ A न्ते। ३ Mss ल । ४ B. D. F add this line ५ A सादवा मकृमा C Dदमान् कृता, B दमावकृमा । ६ Mss except F तिः। ७ A म्ब। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy