________________
मानसोल्लासः।
'[ अध्याय १
सूत्रं तु वेष्टयेत्प्राज्ञः समन्तात् सर्वतः समम् । . तालमेकं ततस्त्यक्त्वा शुक्रवस्तौ निवेशितम् ॥ २३० ।। सूत्रमावेष्टयेत्प्राज्ञः समचित्रविशारदः। ततो दशाङ्गुले त्यक्ते यत्सूत्रं नलकान्तगम् ।। २३१ ॥ गुल्फमस्तकमानीतं पाणिमस्तकमानयेत् । कलामेकां ततस्त्यक्त्वा सूत्रं गुल्फान्तसङ्गतम् ॥ २३२ ।। वेष्टयेच्चित्रको धीमान् सर्व सर्वत्र मानतः। ततो भागं परित्यज्य भूमिसूत्रं परित्यजेत् ॥ २३३ ॥ पडिशतिविधं सूत्रं तिर्यमाने निरूपितम् ।
इति तिर्यङ्मानलक्षणम् । अतऊर्ध्व प्रवक्ष्यामि प्रदेशानां विनिर्णयम् ॥ २३४ ॥ आकारश्च तथा दैर्ध्य स्थौल्यं विस्तारमेव च । छत्राकारं भवेच्छी शिखादेशे समुन्नतम् ॥ २३५ ॥ शिखायाः पूर्वतो भागं किश्चिनिम्नं भवेत्तां । शिखायाः पार्श्वनिम्नं यत् कलामात्रं विहाय तत् ॥ २३६ ॥ शिखायाः पश्चिमे भागे प्रोन्नतं जायते मनाक् । ततोऽधस्ताद्भवेद्गतः शृगा(प्रणा)लसदृशाकृतिः ॥ २३७ ॥ एकाकुलस्तु विस्तारो दैर्ध्य स्यादैङ्गुलद्वयम् । कर्णाग्रसन्धौ संलग्नः कर्णपृष्ठेऽङ्गुलान्तरम् ॥ २३८ ॥ ततोऽधोयङ्गुलातीतस्व्यङ्गुलोऽथ करो(चो)द्भवः । एकैकाङ्गुलविस्तारः शिरोगतस्य पार्श्वयोः ।। २३९ ॥ इत्येष पश्चिम भागे कथितः केशसम्भवः ।। केशाः कृष्णाः पिशङ्गा वा जटिलाः कुटिलाः कचित् ॥ २४० ॥
१D भाग। २D मष्टमये । ३ A त । ४ BF मं । ५ A नं निरूप्यते । ६ A श । ७ BF चनं। ८ DF दा । ९ BD भर्तुः । १० D द्यं । ११ Dरः । १२ A ‘व्य D य ।
Aho! Shrutgyanam