________________
विंशतिः३]
मानसोल्लासः।
स्तनरोहितमार्गेण कक्षासन्धौ निवेश्यते । तदेव सममार्गेण परावृत्तंप्रदेशतः ॥ २१८ ॥ मध्ये फलकमानीतं (य) पृष्ठवंशे समाप्यते । ततः पञ्चाङ्गुलं त्यक्त्वा क्रमाद्विभ्रमसङ्गन्म(ग)म् ॥ २१९ ॥ नयेच्च सममार्गेण मूत्रं चुकयोरधः । आरभ्य बृहतीदेश(शात) बाहुमध्योध्द्रसङ्गमम् ॥ २२० ॥ परावृत्यैव तन्नीतं पृष्ठमध्ये समर्पयेत् । षडङ्गुलं समुत्सृज्य मूत्रं जठरमध्यगंम् ॥ २२१ ॥ बाहुपीनान्तकं नेयं परावृत्य समं हि तत् । भागं कलाधिकं त्यक्ता सूत्रं नाभिसमुंद्धृतम् ॥ २२२ ।। श्रोणीमॉर्गसमानीतं कुंकुन्दराशिरो नयेत् । भागमेकं ततस्त्यक्ता मूत्रं पक्काशयागंतम् ॥ २२३ ॥ नितम्बमध्यादानीतं स्फिजोरू नियोजयेत् । ततः कलाद्वयं त्यक्ता सूत्रं काञ्चीपदस्थितम् ॥ २२४ ॥ स्फिजोर्मध्यमदेशेन समं नीत्वा नियोजयेत् । त्यक्ताङ्गुलानि चत्वारि सूत्रं लिङ्गशिरोगतम् ॥ २२५ ॥ ऊरुमूलात्समानीतं जघनाभोगसङ्गतम् । पञ्चाङ्गुलं परित्यज्य लिङ्गाग्रात्सूत्रमुत्थितम् ॥ २२६ ॥ स्फिजोरधः समानीतं वलीमध्ये निवेश्यते । ततो भागद्वयं त्यक्ता सूत्रं 'पूर्वे निवेशितम् ॥ २२७ ॥ परित्यज्य ततो भौगं मानसूत्रं व्यवस्थितम् । ततः कलाद्वये त्यक्त्वाँ जानुमूर्धनि सङ्गतम् ॥ २२८ ॥ इति स्त्रत्रयं तज्ज्ञः समन्तात् परिवेष्टयेत् ।
गोलकद्वितयं त्यक्त्वा स्थापितं जानुनोरधः ॥ २२९ ॥ १ A तः F ते । २ F न । २ A भवेच्च । ३ B चुबु । ४ D श । ५ A मध्योx, Dस्योर्ध्व । ६A समं धृतम् । ७ B भाग । ८ D क । ९ D न्तगम् । १० A लि । ११ A सूच्या A पूर्वो। १२ A निवेशयेत् । १३ A भागमथो ) भागमर्थ । १४ D ते। .
Aho! Shrutgyanam