________________
विंशतिः ३ ]
मानसोल्लासः ।
दक्षिणोत्तरतोऽलिन्दं सुपक्षं परिचक्षते । उत्तरालिन्दहीनं यत्सुमुखं परिकीर्तितम् ॥ ६३ ॥
पश्चिमालिन्दतो हीनं धनदं गेहमुच्यते । दक्षिणालिन्दहीनं यदाक्रान्तं तदुदाहृतम् || ६४ ॥
पूर्वालिन्दविहीनं यद्विपुलं परिकीर्त्यते । सर्वतोऽलिन्दसंक्तं विजयं गेहमुत्तमम् ।। ६५ ।।
एवं षोडश गेहानि कथितानि परिस्फुटम् । इति पोडशगृहलक्षणम् ॥
यथा नाम फलं तेषु ज्ञेयं तत्र निवासिनाम् || ६६ || धन्यं तस्मात्प्रकर्तव्यं नृपाणां गेहमुत्तमम् । हीनस्तम्भमलिन्दं स्याच्छाला स्तम्भैः समावृता ॥ ६७ ॥ नृपाणां गृहकर्तणां क्रम एष निरूपितः । अन्यच्चतुष्पकारं तदेकशालं गृहं भवेत् ॥ ६८ ॥
प्रधानगेहं स्तम्भैश्च शाला स्तम्भैः समा भवेत् । तस्य लक्ष्म प्रवक्ष्यामि शुभाशुभफलोदयम् ।। ६९ । उत्तरा शस्यते शाला शाला पूर्वा प्रशस्यते । दक्षिणा पश्चिमा शाला द्वे शाले परिनिन्दिते ॥ ७० ॥
नृपाणां सुखवासार्थं न कर्तव्ये कदाचन । तिष्ठन् गेहेषु शस्तेषु श्रियमामोति पुष्कलाम् ॥ ७१ ॥
आरोग्यं विजयं कीर्तिं सन्तोषं परमाप्नुयात् । एवं षोडशगेहानां फलं लक्षणनामकम् ।। ७२ ।। सोमेश्वरनृपेणोक्तं वास्तुपद्धतिमार्गतः ।
इति षोडश गेहलक्षणम् ।
१ Miss न्दः २ B. D. नुप.
Aho! Shrutgyanam