________________
मानसोल्लासः।
[अध्यायः
AAAAmarane
एकं स्यात्पूर्वतो द्वारमन्यदुत्तरत:स्थितम् । अङ्गणाइक्षिणा शाला हस्तिनी परिकीर्तिता ॥ ५१ ॥ अङ्गणात्पश्चिमा शाला महिषीति निगद्यते । इदं द्विशालं सिद्धार्थ सर्वकामफलप्रदम् ।। ५२ ॥ नृपाणां शस्यते स्थातुं विशेषाद्वित्तवर्धनम् । वायव्ये गर्भगेहं स्याच्छाले दक्षिणपूर्वगे ॥ ५३ ।। द्वारे शालामुखे कार्ये शालाद्वारे च सम्मुखे । महिषी त्वङ्गणात्पश्चादुत्तरा गौः प्रकीर्तिता ॥ ५४ ॥ द्विशालं भयदं त्वेतद यमसूर्यं विनिर्मितम् ॥ ऐशाने प्रथमें वेश्म शाले दक्षिणपश्चिमे ॥ ५५ ।। अङ्गणापूर्वतच्छागी गांवी चोत्तरतः स्थिता । दण्डाख्यं नाम तत्मोक्तं वि(द्वि)शालं भयदं नृणाम् ॥ ५६ ।। वर्जनीयं प्रयत्नेन नृपैरावासकर्मणि । आग्नेयं मुख्यवेश्म स्याच्छाले चोत्तरपश्चिमे ॥ ५७ ।। अङ्गणात्पूर्वगा च्छागी दक्षिणा हस्तिनी मता। वाताख्यं नाम तत्मोक्तं नृणामुद्वेगकारकम् ।। ५८ ।। नृपाणां नैव कर्तव्यं निवासार्थ कथञ्चन । द्विशालमेकं सिद्धार्थं प्रशस्तं पृथिवीभुर्जाम् ॥ ५९ ॥ क्रीडार्थं सन्निवासार्थ भोगार्थ च प्रशस्यते । ध्रुवं हनिमलिन्देन पूर्वालिन्दं तु धन्यकम् ॥ ६० ॥ जयं स्यादक्षिणालिन्दं पश्चालिन्दं खरं भवेत् । दुर्मुखं चोत्तरालिन्दमेकालिन्दं चतुर्ग्रहम् ॥ ६१ ॥ धन्यं जयश्च शुभदं निन्दिते खरदुर्मुखे । पूर्वदक्षिणतोऽलिन्दं नन्दं नाम्ना निगद्यते ॥ ६२ ॥
१D सं। २ F ना० । ३ A न्मु० । ४ Mss धूतसूत्रं । ५ Mss मे ६ Mss गोधी । ७. ८F जा । ९ Mss यः १० F. D. ल्लि । ११ Mss श्च १२ Mss कान्तं
Aho! Shrutgyanam