________________
विंशतिः ३ ]
मानसोल्लासः ।
चत्वारिंशच्चतुर्भद्रे स्तम्भा एवं निरूपिताः । एवं चतुर्षु भद्रेषु शतं षष्टिस्तथाधिकम् ॥ ३९ ॥ कोणास्तस्य विधातव्यास्त्रयोदशमिता बुधैः । समन्ताद्गणिताः कोणा द्विपञ्चाशद्भवन्ति ते ।। ४० । श्रीवत्समन्तष्टभाग स्याच्चतुःषष्टिः सुमध्यगाः । तस्य स्तम्भाः प्रयोक्तव्या भद्रेष्टादशसख्यया ॥ ४१ ॥ चतुष्वपि च भद्रेषु द्विसप्ततिरुदाहृताः । सप्तकोणाः समन्ताच्च द्विगुणाः मर्नुसङ्ख्यया ॥ ४२ ॥
एवमादीन्यनन्तानि गेहानि धरणीभुजाम् । कियन्त्यपि मनोज्ञानि प्रणीतानि यथाक्रमम् ॥ ४३ ॥
चतुःशालं त्रिशालं च द्विशालञ्चैकशालकम् । वक्ष्यामि भवनं राज्ञां नामलक्षणसंयुतम् ॥ ४४ ॥
*
अलिन्दैश्च चतुद्वारैश्चतुश्शालमुदाहृतम् । सर्वतोभद्रनामेदं नृपाणां शस्यते गृहम् ।। ४५ ।।
वर्धमानं तथाख्यातं दक्षिणद्वार वर्जितम् । स्वस्तिकं तद्भवेन्नाम्ना पूर्वद्वारविवर्जितम् ।। ४६ ।।
उत्तरद्वारहीनं चेद्रुचकं तद्भवेद्गुहम् । सर्वतोभद्रमाद्यं च चतुश्शालमुदाहृतम् ॥ ४७ ॥ शुभप्रदं नरेन्द्राणां विजयारोग्यवर्धनम् । नन्द्यावर्त वर्धमानं स्वस्तिकं रुचकं तथा ॥ ४८ ॥
चत्वारि स्युस्त्रिशालानि गेहानि धरणीभुजाम् । नैर्ऋते मुख्यगेहं स्याच्छाले चोत्तरपूर्वगे ॥ ४९ ॥
- पूर्वायाश्चोत्तरद्वारमुत्तरायाश्च पूर्वतः । कर्तव्ये गर्भस्य द्वारे द्वे तु विचक्षणैः ॥ ५० ॥
1
१ MSS त्रिकम् २ D म्मिता ग० । ३ Mss. गे ४ Miss भेदो त्रि० । ५ Fर्थे । ६ A सन्तु ७ Mss त्रिलिङ्गै । F स्त्रि० । ८ Mss, विजये जय० ९ एतत्तथा । १० Mss हे ११ FD रं० ।
Aho! Shrutgyanam