________________
४
मानसोल्लासः ।
इति मन्दिरमुखनिर्णयः ।
नृपगेहानि वक्ष्यामि स्तम्भसङ्ख्याप्रमाणतः । [ चतुष्कालिन्द ] शालाभिश्चतु [ ] मनोहरैः ॥ २८ ॥
पृथ्वीजयं गृहं कार्य देशभागं विचक्षणैः । मध्ये स्तम्भशतं तस्य भद्रेऽष्टाविंशतिस्तथा ॥ २९ ॥ चतुर्भद्रेषु च शतं स्तम्भानां द्वादशाधिकम् । नव कोणाँ विदिग्देशे स्युः षटत्रिंशच्चतुर्ष्वपि ॥ ३० ॥ चत्वारो मध्यगाः स्तम्भा यत्र तत्स्याच्चतुष्ककम् । तस्माद्बहिरलिन्दं स्याच्छाला स्यात्तदनन्तरम् ॥ ३१ ॥ [ अलिन्दै ] च पुनः शाला क्रमेणैवं प्रवर्धते । यावत्कर्तुमतीतं स्याद् गृहं नरपतेः शुभम् || ३२ ॥ यच्चतुष्कगतं क्षेत्रं पञ्चधा तद्विर्भज्यते । तद्भागप्रति कार्यं त्रिभिर्भागैरलिन्दकम् ।। ३३ ।। सार्धत्रिभागिकाः शालाः कर्तव्या: सुविचक्षणैः । इयं स्थितिः समस्तानां गृहाणां प्रतिपादितां ॥ ३४ ॥ नाम्ना तु मुक्तकोणं यत् तत्कार्यं रविभागतः । मध्ये स्तम्भशतं सार्द्धं षडिन्यून [ निरूपितम् ] ॥ ३५ ॥ [ चत्वरिंशत्तथा ] स्तम्भा भद्रे भद्रे निरूपितः । शतं षष्ट्यधिकं ते स्वतुर्भद्रेऽपि सङ्खयया ॥ ३६ ॥ एकादश तथा कोणा विदिशं विदिशं प्रति । चतुर्दशैं तथा त्रिंशचैतसृष्वपि सङ्ख्यया ॥ ३७ ॥ कथ्यते सर्वतोभद्रं मनुभागैर्विभाजितम् । मध्यस्तम्भा भवन्त्यस्य षण्णवत्यधिकं शतम् ॥ ३८ ॥
[ अध्यायः १
१ MSS चतुष्कभेद ( AD दा: ) २ MSS भेदै ( F द० ) ३D देशभाषा ४ A तु ५ Mss ६F ७ Mss न्दे ८ AF तः ९ Fभु १० BD तिमं ११ Mss ताः १२F का १३ Mss. ०णा ये १४ ना १५ MSS तिपूरिताः ( F' 'नि० ) । १६ MSS चत्वारः संस्थिताः । १७ Fता १८ A ट्रा १९ मत्यः Mss, भ्य २० E शे २१ MSS चतुःषष्टिश्च ।
Aho! Shrutgyanam