________________
विंशतिः ३ ]
मानसोल्लासः ।
दन्तिदन्ताहतं चैव विद्युत्पातनिपीडितम् ।
स्वयं शुष्कं च भग्नं च वक्रं देवालयोद्भवम् ॥ १८ ॥
चैत्यवृक्षं शिवक्षेत्रेनदीसङ्गमसम्भवम् । तडागकूपमध्यस्थं कण्टकाकुलितं तथा ।। १९ ।। नीपं बिभीतकं निम्बं श्लेष्मान्तकैमहीरुहम् । असारांश्छाखिनः सर्वान् वर्जयेद्गृहकर्माणि ॥ २० ॥
एकजात्या द्विजात्या वा त्रिजात्या वा महीरुहाम् । कारयेन्मन्दिरं राजा श्रियमिच्छन्महीयसीम् ॥ २१ ॥
इति कालक्षणम् । व्यासेन गुणितं दैर्घ्यमष्टकैश्च विभाजितम् । यच्छेषं स भवेदयः प्रोक्तो नामभिरष्टभिः ।। २२ ॥
एको ध्वजो द्वयं धूमस्त्रिकः सिंहः प्रकीर्तितः । चतुर्थः सारमेयस्तु पञ्चमो वृष इष्यते ॥ २३ ॥
षष्ठंः खरो विनिर्दिष्टः सप्तमः स गजो भवेत् । अष्टमो" वायसः प्रोक्तश्रयमायविनिर्णयः ॥ २४ ॥
इति आयलक्षणम् ।
ऐन्द्रीं दिशं समारभ्य प्रदक्षिणविधानतः । अष्टासु दिक्षु बोद्धव्याः क्रमेणाय ध्वजादिकाः || २५ ॥ पश्चिमाशाननः श्लाघ्यो ध्वजः सर्वमुखोऽथवा ।
उत्तराभिमुखः सिंहो वृषः प्राचीमुखः शुभः || २६ ॥
दक्षिणाभिमुखो हस्ती सारमेयोत्तराननः । मुखं द्वारं विनिर्दिष्टं मन्दिरस्य विचक्षणः ॥ २७ ॥
१ A वृत्त • AF वेत्र० २ F त्रं ३ F त० ४F हाः ५A द्दा ६ Fता ७ A ष्कं कः BD को F का ९A : १० BF को ११ A
आयनाम १२ A शां १३ A य
Aho! Shrutgyanam