________________
मानसोल्लासः।
[ अध्यायः १५
पानतीर्थ प्रकुर्वीत मृगाणां सलिलार्थिनाम् । अन्यत्र रोधनं कुर्याल्लभन्ते जलकं यथा ॥ ५५ ॥ नृ()त्या वा वंशजाला कटैर्वा क(व)ल्कलैः सितैः । निखार्य मेढ(र)कांस्तज्ज्ञः सुदृढं परिवेष्टयेत् ॥ ५६ ॥ संवीक्ष्य मारुतं यत्नादङ्गणं परिकल्पयेत् । यथा गन्धं न जानन्ति सम्प्राप्ता मृगजातयः॥ ५७ ॥ मनुष्यगन्धमाघ्राय पलायन्ते मृगादयः। तस्माद्वायुगतिं ज्ञात्वा गतौ(ति) तत्र प्रकल्पयेत् ॥ ५८ ॥ पार्श्वयोस्तीर्थपानस्य ग-युग्मं प्रकल्पयेत् । धनुतियविस्तीर्णं वर्तुलं हस्तखातकम् ॥ ५९॥ गर्तस्योभयपाधै तु सार्द्धहस्तंसुविस्तृतौ । हस्तद्वयायतों कुर्यादवटौ पूर्वखातकौ ॥ १४६० ॥ पश्चात्प्रधानगर्तस्य गर्तमन्यं प्रकल्पयेत् । हस्तद्वितयविस्तीर्ण हस्तत्रयसमाहितम् ॥ ६१ ॥ दिवा यामत्रयादग्गिर्त कुर्वीत बुद्धिमान् । मनुष्यपदसञ्चारगन्धं संरक्ष्य यत्नतः ॥ ६२ ॥ एवं सर्व()विधायार्थ समागत्य नृपालयम् । गर्तनिर्वर्तनं राज्ञे लुब्धको विनिवेदयेत् ॥ ६३ ॥ विजयः क्रियतां देव कौतुकं ते भविष्यति । मृगवेधेनं पूर्यन्ते सायकाः शतसङ्ख्यया ।। ६४ ॥ लुब्धकेनेति विज्ञप्तः कौतुकोल्लोसिमानसः । समाहूय ततो वाहाँस्तोयस्थानं मृगाश्रयम् ॥ ६५ ॥ मितैः प्रेम(मो)दचित्तैश्च वृतो यायान्महीपतिः । साधु कतिपयैराप्तैलुब्धकैः प्रेयसीजनैः ॥ ६६ ॥
१ A जं। २ A यदका । ३ A त । ४ A श्च । ५ A श्वं । ६ A स्तेन । ७ A तो। ८ A स्तारं । ९ A न्व । १० A यक । ११ A धन पूर्व । १२ A न. वि । १३ A समानसा । १४A म । १५ A मा । १६ A सि।
Aho ! Shrutgyanam