________________
२७७
विशतिः४]
मानसोल्लासः। उपान्तवनवित्रस्तसमागममृगैर्युता। अनेनैव प्रकारेण रक्षणीयाऽटवी सदा ॥ ४३ ॥ स्वपुरस्य समीपस्था विनोदाय महीभुजाम् । लुब्धकैर्महिषारूडै (:) शोधनीया पुनः पुनः ॥ ४४ ॥ व्याघ्रादीन्पैदसङ्घातैस्तां विलोक्य विघातयेत् । तांस्तान् भेदान्प्रवक्ष्यामि राजयोग्यान्पृथक् पृथक् ॥ ४५ ॥ पानीयजा चारजा च क्षेत्रजा मार्गजा तथा । उष्ट(ऊष)रा दीपमृगजा तथा च विटपाश्रया ॥ ४६॥ वभ्र(ध्र)जा काण्डपटजा मञ्चजा भूमिगेहजा। बलिवर्द तिरोधाना महिषारोहणोद्भवा ।। ४७ ॥ अश्वजा चित्रजा चैव शारीरी स्तम्भनी तथा । वायुजा दैमनोत्पन्ना गौरिजा कोपसम्भवा ॥४८॥ कामजोत्विति(ध्वनि)जाता च तथा मदविकारजा । नीहारजा पाशजाता जालजा यन्त्रसम्भवा ॥४९॥ व्याघ्रमोक्षणसम्भूता तथा कवलदानजा । एकत्रिंशत्प्रकारेयं मृगया राजसम्मता ॥ १४५० ॥ निमज्जनाजलस्यान्त(:) प्रवेशाच्च बिलान्तरे । गवयस्याच्छभल्लस्य व्याघ्रस्य महिषस्य च ॥ ५१॥ खङ्गस्य मृगयात्त्यर्थं प्रसा(मा)दबहु(ला) यतः । तस्मादेषां विवा स्यात् धीमतां पृथिवीभुजाम् ॥ ५२ ॥ शिवाजम्बुकमार्जारकोकमूषिकसम्भवा । कुत्सिता मृगया भूपैवर्जनीया विनोदने ॥ ५३ ॥ नद्या तटाके सरसि कृत्रिमे च जलाश्रये । मृणामिदमावेक्ष्य यत्र विस्तीर्णमङ्गणम् ॥ ५४॥
१ A मि । २ A स्थ । ३ A सोप्यनी । ४ A न्य । ५ D मा । ६ D gives these three lines | A । ८ A षो। ९ A म्भि। १० A ड। ११ D गो। १२ A जारि । १३ A म। १४ A म्भवा । १५ A ते । १६ हो । १७ D ही। १८ A णां परमा वक्ष्ये ।
Aho! Shrutgyanam