________________
मानसोल्लासः।
[अध्यायः १३
क्रमोन्जालं विधायादौ चतुरस्रं समायतम् । आपादमस्तकोत्सेधं हरित्पल्लववेष्टितम् ॥ ४१ ॥ वधं दण्डं तथालम्ब्य कण्ठेनावभुजेन वा। तडिकाख्यमवष्टभ्य यष्टयस्थितपाशतः ॥ ४२ ॥ कण्ठे गृहीत्वा कर्फत्तं खादन्तं बद्धपक्षिणम् । शीघ्रं पाशैर्विमुञ्चेत यथा पाणैर्न मुच्यते ॥ ४३ ॥ अश्वत्थदुग्धमादाय शनैर्मेद्वग्निना पचेत् ।। यावचिक्कणतां याति किञ्चित्तैलेन मर्दयेत् ॥ ४४ ॥ बद्धयष्टिस्तु(न्तु) चिक्केन हस्तमात्रात्म(म्प)लेपयेत् । बद्धस्य पक्षिणः पार्वे समन्तात्तां प्ररोपयेत् ॥ ४५ ॥ पतन्तं सहसा श्येनं पक्षिणं भोक्तुमुद्यतम् । यष्टयस्ता निबध्नन्ति चिक्कलिप्ताः समन्ततः ॥ ४६॥ तैलेन भस्मना चिकं स्फोटयेत्पक्षिपिच्छगम् । एवं धृतांस्तु तान् श्येनान्सूते(सप्त) पक्षपुटांस्ततः ।। ४७ ॥ तनुर्वन्धि(न्ध)बन(द्ध) पादान् हस्तमारोप्य यत्नतः । तन्मुखं मांसखण्डेन स्पृष्टं तद्भक्षयेद्यथा ॥ ४८ ॥ वारं वारं स्पृशेद्धस्तैस्तस्य त्रासनिवृत्तये । जागरं कारयेच्छयेनं रात्रौ स्थैर्योपपत्तये ॥ ४९ ॥ ततस्व्यहे व्यतीते तु सायंसन्ध्यासमागमे । तरुमूले स्वयं स्थित्वा मनागुद्घाटयेदृशौ ॥ १३५० ॥ धारके तरुमूलस्थे सिद्धयत्येषां समुत्प्लवः । समुत्प्लवस्य संसिद्धौ कुर्याद्ध(द)मविकासनम् ॥ ५१ ॥ चटकान् भक्षयेत्तांस्तु पोषणार्थं च धारकः । प्रमाणेन परं दद्याद्यथा क्षुद्वर्धते भृशम् ॥ ५२॥
१ D कम्राजा । २ D थ । ३ A प । ४ D डी। ५ D ग्रे। ६ A र्ष । ७ A प्रक । ८ A द। ९D नान् A नि । १० A स्प। ११ A प । १२ A व ।
Aho! Shrutgyanam