________________
मानसोल्लासः।
[ अध्यायः ११
तमेकं पञ्जरे कृत्वा नीत्वा दूरं समुत्सृजेत् । लेखपत्रं समासज्य कण्ठे तं मोचयेन्नरः ॥ ९४ ॥ त्रिंशद्योजनपर्यन्तमह्ना याति स्मरन् प्रियाम् । पवित्रा दर्शनीयाश्च राजकार्योपयोगिनः ॥ ९५॥ अत एव महीपालैः संग्राह्यास्ते विशेषतः । रतिकालेऽपि ते धार्या रागवर्धनहेतवें ॥ ९६ ॥ गलघूर्णितनादेन हर्षमुत्पादयन्ति हि । पारापतविनोदोऽयं धर्मकर्मार्थसिद्धये ॥ ९७ ॥
इति पारापतविनोदः ॥ ११॥ इदानी कीय॑ते सद्योविनोदः सरमाभुवः । आभिराः सेवुणाश्चैव कहराः पडियँण्ड(र्यन्त) जाः ॥ ९८ ॥ गर्ता दुग्धवाटाश्च तथा कर्णाटदेशीः । आन्ध्रदेशसमुत्पन्नास्तथा च्य(च)वनवासजाः ॥ ९९ ॥ वैदर्भास्तालनीराश्च तापीतटसमुद्भवाः । राष्ट्रष्येतेषु सञ्जाताः शौर्य वीर्यबलान्विताः ॥ १३०० ॥ सुरावाः सारमेयाः स्युनानावर्णगुणान्विताः । आभीरौस्तनुरोमाणः सेवुणाश्च तनुत्वचः ॥१॥ कढेरौंः स्वच्छरोमणिः पर्यन्तास्तनुपुच्छकाः ।
गर्तास्तु महाकायाः दुग्धवाटाः कृशाङ्गकाः ॥२॥ कर्णाटदेशसम्भूताः कुब्जकेशाश्च कुक्कुराः । आन्ध्रदेशसमुत्पन्नाः स्वल्पकाया महाबलाः ॥ ३ ।। रोमी वनवासाः स्युर्वेदी रम्यमूर्तयः । स्ना(ता)लनीरसमुत्पन्नाः कान्तिमन्तोऽल्परोमकाः ॥ ४ ॥ तापीतटसमुत्पन्नाः शुनकाः कोमलाङ्गकाः । पाण्डुराः शोणवर्णाश्च पीतश्वेताश्च कर्बुराः ॥५॥
A साद्य । २ D वः । ३ D कथितः सोमभूभुजा । ४ A कथितः। ५A सेनु D सैवु । ६ D हो । ७Dम। ८A जः। ९ A अ। १०A शूरास्ताः। ११ A या स्य। १२ D भी। १३ D सै १४D हो। १५Aण । १६ A सा वा नवास ।
Aho! Shrutgyanam