________________
विंशतिः ४ ]
मानसोल्लासः ।
पलायेति ततो मेषे पण ग्राह्यो यथोदितः । एवं मेषविशेषाणां विनोदः कथितो भृशम् ॥ ५८ ॥ कथ्यते सोमभूपेन विनोदो महिषाश्रयः । भूलोकमल्लदेवेन कलासर्वस्ववेदिना ॥ ५९ ॥
इति मेषविनोदः ॥ ९ ॥
इदानीं कथ्यते कोsपि विनोदो महिषाश्रयः । वैदर्भा (:) कारहाटीच जालधन्रसमुद्भवाः ।। १२६० ॥ सौराष्ट्रमध्यदेशा (श्या च महिषा युद्धवेदिनः । स्थूलस्कन्धा महाकाया विशालोरस्थलास्तथा ॥ ६१ ॥ कुब्जपोल (र) स्त्यपादाथ लाक्षापिङ्गलचक्षुषः । हीनाः पश्चिमभागेषु ग्नपष्ठाः समोदराः ॥ ६२ ॥ अस्रस्तमेढ्रकाश्चैव हस्ववर्ऋविषाणकाः । श्वेतकुष्णाः पुण्ड्राश्च श्वेताश्वेितपुच्छकः ॥ ६३ ॥ ईदृशा महिषा ज्ञेया प्रशस्ता युद्धकर्मणि । बालान्प्रियङ्गुपिष्टेन क्षीरमिश्रेण पोषयेत् ॥ ६४ ॥
दधा समाषचूर्णेन बृंहयेत्तान् प्रयत्नतः । ऊर्ध्वं संवत्सरात्तेषां नासावेधं समाचरेत् ।। ६५ ।।
नासायां निक्षिपेद्रज्जुं दृढां धारणहेतवे । पिण्याकैः पू (कपूर्णकुल्माषैविंदलैश्चणकस्य च ।। ६६ ॥ कृशराभि”: सतैलाभिस्तत्रैर्लवणसंयुतैः । तत्तत्काल समुद्धृतैर्हरितैर्यवसैरपि ॥ ६७ ॥
जलावगाहनैस्तेषां तुष्टिं पुष्टिं च कारयेत् । वर्षाणां पञ्चकादूर्ध्वं दर्पवन्तो बलान्विताः ॥ ६८ ॥
महाकाया विभक्ताङ्गा युद्धयोग्या भवन्ति ते । महिषीवृन्दमध्यस्थौ कर्दमा लिप्तगात्रकौ ॥ ६९ ॥
Aho! Shrutgyanam
२६१
१ A यिनि । २A क । ३ Aट।४ A ला । ५ D स्थ । ६Aभ। ७A रा ८ A ऋत्र । ९ D च । १० A कः । ११A भि ।