________________
विंशतिः 8]
मानसोल्लासः ।
मल्लयुद्धप्रकारन्तं ब्रुवाणः प्रमदान्वितः ।
एवं मल्लविनोदेन नीत्वा वासरशेषकम् ॥ ९४ ॥
सुखासनं समारुह्य प्रविशेद्राजमन्दिरम् । मल्लानां लक्षणं युद्धेश्रमैश्च परिपोषणम् ।। ९५ ।। कथितं सोमभूपेन सर्वमल्लोपकारकम् । उक्त मल्लविनोदोऽयं सोमेश्वरमहीभुजा ।। ९६ ॥ इति मल्लविनोदः ॥ ६ ॥
ताम्रचूडविनोदस्तु साम्प्रतं परिकीर्त्यते । कुक्कुटानों च सद्भिस्तु ज्ञातव्या जातयः पुरा ॥ ९७ ॥ आकारः पोषणं चैव शुभं रूपं च शाकुनम् आयोधनप्रकारश्च व्यवस्थाश्च जयाजये ॥ ९८ ॥
कुक्कुटानामिदं ज्ञात्वा पश्चात्कुर्यात्तदाहवम् । पादौ सितौ सिते चारे नखराः पाण्डुराः शुभाः ।। ९९ ।। लोचने च तथा शुक्ले शुक्लप्राणो विशेषतः । शङ्खध्वनिनिभो नादस्तीक्ष्णाग्रा पिच्छसन्ततिः ॥ १००० ॥ कम्बुग्रन्थिंनिभं शीर्षं" यस्यासौ शङ्खजातिः । चरणौ पाण्डुरच्छायौ दीर्घवालयः कृशाः ।। १ ।। दीर्घो देहस्तथा कार्य व दीर्घा च नासिका । मृदुपहारसंयुक्तं मन्दर्युद्धं भवेत्स्थिरम् ॥ २ ॥ यस्यासौ स भवेज्जात्या कुक्कुटो गुरुसंज्ञकः । उन्नतः सितवृत्ताङ्घ्रिः पृथुवक्षस्थलो महान् ॥ ३ ॥ आक्रम्य युध्यते शूर अंशुजातिः प्रकीर्तितः । सूक्ष्मरः शोणपादश्च सितशुक्तिसमन्वितः ॥ ४ ॥ शुक्लाक्षों दीर्घशब्दश्च जात्या नारः प्रकीर्तितः । हारिद्रौ चरणौ पि सितौ वा कृष्णबिन्दुकौ ॥ ५ ॥
१ A रान्ते । ? A द्धं । ३ A माच्च । ४ D तो । ५ A हवमिच्छद्भिर्ज्ञा । ६
। १२A की १३ A ६ । १४
८ A ण्ड । ९ A ण । १० Aन्धि । ११ १६ Aक्ष्मो । १७ A रावो । १८ D चा ।
Aho! Shrutgyanam
२३९
श्रुतं ।
। १५D द्वय ।