________________
मानसोल्लासः।
[ अध्यायः६
वलनं सहते यस्तु स भवेद्वलनेसहः॥ ५८ ॥ यो रक्षति हि विज्ञानं मल्लो रक्षणको ह(म)तः । आशुंप्रयुक्त विज्ञाने तदपाये पर द्रुतम् ॥ ५९ ॥ स मल्लो ढकणो धन्यः शीघ्रविज्ञानकारकः । परप्रयुक्त विज्ञानं पररन्धं च पश्यति ॥ ९६० ॥ दर्शनाख्यक्रियायोगान्मल्लो दर्शन उच्यते । उत्लुत्य यो लगेत्कण्ठे स मल्लो लँगनो भवेत् ॥ ६१ ॥ मर्यादापालको युद्धे नियतः परिकीर्तितः । एवंविधगुणान् मल्लान् समकायवयोबलान् ॥ ६२ ॥ नियुद्धे योजयेद्राजा करास्फालनपूर्वकम् । प्रतिज्ञा ते च जल्पन्ति शृणुयातां नराधिपः ।। ६३ ॥ घटिकाभ्यन्तरे देव मोटयेत्प(प्र)तियोधिनम् । मल्लद्वयं मोटयामि जल्पत्येवं तथापरः ॥ ६४ ॥ मल्लत्रयं भिनग्रीति वदेदन्योऽपि ज्येष्टकः । विज्ञानेनाहमेकेन पातयामीति भाषते ॥ ६५ ।। यस्मिन्नेव स्थित(तः)स्थाने तस्मिन्नेव निपातयेत्ये)। एवं कृतप्रतिज्ञांस्तांन्विमर्थ च ततो निशि ॥ ६६ ।। महत्तरं समाहूय महीपालः संपादिशेत् । अलङ्कुरुष्व वाक्याडे" त(चाख्खाडव)।देवमण्डपम् ।। ६७ ॥ इत्यादिष्टो नृपेन्द्रेण ततो ग्रा(ग्र)हमहत्तरः । स्तम्भैः षोडशभियुक्तं गृहं कृत्वा समायतम् ॥ ६८ ॥ पश्चिमे तु दिशाभागे चतुरस्रां सुविस्तृताम् । सार्धहस्तसमुत्सेधां वेदिकां तत्र कारयेत् ॥ ६९ ।।
१A श्रु । २ D तदपाय । ३D परमं । ४ A न्या। ५A का६ A छ। ७ A लगतो। ८ A ध। ९Aभ। १० A कम् । ११ व्यं ।
Aho ! Shrutgyanam