________________
विंशतिः४]
मानसोल्लासः।
निवर्तेत तथा तूर्ण श्रमोऽयं भ्रमणाभिधः । पुष्करिण्यां तडागे वा नद्यां च प्रविशेज्जलम् ॥ ४६॥ कण्ठदघ्नं ततस्तोय बाहुभ्यामवलोडयेत् । जङ्घाबलावहः पूर्वः कथितो भ्रमणश्रमः । ४७ ॥ बाहुपाणकरो ज्ञेयो द्वितीयः सलिल:(ल) नमः । स्थितौ तुदेतामन्योन्यं कराभ्यां बाबा)हुयुग्मकम् ।। ४८ ।। सायङ्काले विधातव्यो बाहूपेलणकः श्रमः । आश्लेषयोग्य(ग्य) सुश्लक्ष्णमूर्ध() वाहुतलोन्नतम् ॥ ४९ ॥ दृढं निखानितं स्तम्भं चर्चितं चन्दनादिना । उत्प्लुत्याक्रम्य सक्थिभ्यां बाहुभ्यां चैव वक्षसा ॥९५० ।। दृढं सम्पीड्य तं स्तम्भं पद्भयामूर्ध्व समाश्रयेत् । बाहुभ्यां च ततोरुभ्यामावर्तनविवर्तनः ॥ ५१ ॥ अंधश्चोर्ध्वं च संश्लेष्य स्तम्भेन श्रममाचरेत् । एवं कृतश्रमा मल्लाः पुष्टा हृष्टाः समागताः ।। ५२ ॥ विज्ञपेयुर्महीपालं मल्लाध्यक्षपुरःसराः । पाल्य॑(ल्यः) पूर्णा इहास्माकं पोषिता च निजी तनु(नुः) ॥ ५३॥ जितश्रमा वयं जाता नियोधर्य महीपते । इति विज्ञाप्यमानस्तु गुणा(ण)स्तेषां विचारयेत् ।। ५४ ॥ भेदैादशभिर्युक्तीन्मिथस्तेषां नियोधने । महाकायस्तु यो मल्लो भौरी स परिकीर्तितः ॥ ५५ ॥ बलाढयः कथ्यते प्राणी ऊर्जलश्च सुशिक्षितः। संस्थाननिरतो ज्ञेयो यः स्थाने सुस्थितासनः ।। ५६ ॥ श्रमं न याति यो युद्धे बहुयोधी स कथ्यते । विज्ञानेन गृहीतोऽपि यो मुञ्चति न भाषते ॥ ५७ ॥
नारफालयति हस्तेन सम्बद्धः पतितो युधः । 1 D न । २ A तः । ३ D पाति । ४ A त ।५ A धैं । ६ D adds this line । ७ A आधाश्चार्ध । ८ D पाल्याः । ९ D स्वपुत्रवत् । १० A ज। ११ D क्ताः मि। १२ A भी। १३ D ऊर्च
A ऊर्जा । १४ A परी । १५Dन। १६ A न्धः । १७ A रधेः ।
Aho! Shrutgyanam