SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २३० मानसोल्लासः । पोषार्थ द्रविणं तेभ्यो दत्वा पचाद्विसर्प (ज) येत् । भविष्णवः प्ररूढार्थं पोष्या बृंहणभोजनैः ॥ ८८ ॥ मासस्तथा दक्षा पिष्टैः क्षीरविमिश्रितैः । घृतेन सितया चैव विदार्या वाजिगन्धया ॥ ८९ ॥ घृतेन भृष्टैः कुष्माण्डेश्वर्णितैः सितयान्वितैः । योषितां दर्शनात्स्पर्शात्संल्ला (ला) पात्सङ्गमादपि ।। ८९० ।। संरक्ष्यों यत्नतो मल्ला विशेषेण भविष्णवः । एकान्तरे दिने कुर्युः श्रममश्रमहेतवे ॥ ९१ ॥ पृथक् पृथक् स्वगेहेषु निजैर्गोवलकैः सह । गोवळे: : सह कुर्वीत नियुद्धं प्राणवर्धनम् ॥ ९२ ॥ संस्थानानि च चत्वारि कल्पयेयुर्हढानि च । विज्ञानानि च सर्वाणि तेभ्यर्सेयुरशेषतः ।। ९३ ।। वक्ष्यामि स्थानकानाञ्च विज्ञानानां च लक्षणम् । कक्षे पूर्वापरे धृत्वा प्रोत्तानपतितस्य हि ॥ ९४ ॥ तत्कपोलं स्वपार्श्वेन सम्पीड्यार्धाङ्गकं भवेत् । पुरः कक्ष समादाय पूर्ववत्पतितः स हि ॥ ९५ ॥ मूर्ध्नि कूर्मासनं बध्वा भजेद्वाप्येकपादके (कम् ) । उत्तानप्रतिमल्लस्य निवार्य चरणद्वयम् ॥ ९६ ॥ उदरस्योपरिस्थोंनं स्थानं करवलं स्मृतम् । स्वयमुत्तानपतितो जठरागमनोद्यतम् ।। ९७ ।। पादाभ्यां पीडयन् मध्ये जठरस्थानकं भवेत् । पराङ्मुखस्य मल्लस्य स्थितस्य पतितस्य वा ॥ ९८ ॥ कक्षामाक्रम्य पार्श्वभ्यां पृष्ठस्थानकमाचरेत् । उक्तानि स्थानकान्येवं विज्ञानानि प्रचक्ष्महे ॥ ९९॥ [ अध्यायः ६ १ D पौषा | २ A श्व | ३ | ४ A बृ । ५A क्षयेत्त । ६A मल्लान्वि । ७ A वा । ८ A चेत्पु । ९ A ल । १० A जेत् । ११ Aढां । १२ Dप । १३ A नंतंस्था | १४ A न । १५ A खलं, A खं । १६ A च्छा । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy