________________
२३१
विंशतिः ४]
मानसोल्लासः। स्वरूपेण तथा नाम्ना विस्तरेण यथागमम् । अर्धाङ्गस्थानकच्छे(स्थे)न मल्लेन स्थूलवर्मणा ॥ ९०० ॥ पीडनान्मुखदेशस्य विज्ञानं स्यात्तदेव तु । स्थित्वैवार्धाङ्ग के स्थाने पादस्याकर्षणं वहिः ॥१॥ बहिः पणमितिज्ञेयं विज्ञानं पादमोटनम् । शिरःस्थानकमास्थाय गृहीत्वैकेन मूर्धकम् ॥२॥ अन्येन तत्करस्याधः क्षिप्तेन स्वकरे धृते । बहिर्भागे च वैलिते विज्ञानं बाहुमोटनम् ॥ ३॥ तस्यैव परिद(ह)त्तस्य मोटने वाहुसी भवेत् । जवाभ्यां च भुजाक्रान्तौ ताभ्यां शिरसि पीडिते ॥४॥ पुरः कक्षा समाकृष्यं गुणालं प्राणघातकः (कम्) । ग्रीवायोः सभुजायाश्च पादेनाक्रमणे सति ॥५॥ अन्यजान्ववबढेन कुर्यादुत्तरढोरैम् । शिरःस्थितेन मल्लेन विक्षेपायोद्यतं पदम् ॥ ६ ॥ गृहीत्वा सक्थियुग्मेन कक्षे निक्षिप्य पाणिकम् । उत्तानजानुदेशस्य कटियन्त्रेण पीडनम् ॥ ७ ॥ पटिशं नाम विज्ञानं जानुसन्धिप्रभञ्जनम् । अनेनैव प्रकारेण बाहुसन्धिप्रपीडनम् ॥ ८॥ छैडुकी नाम विज्ञानं प्राह सोमेशभूपतिः । अधो विध(य तद्वाहोः पूर्ववत्पीडनं यदि ॥९॥ विज्ञानमन्त छुडुकी बाहुसन्धिप्रभञ्जनी । मैंन्या कक्षे विनिक्षिप्य भुजेनैकेन संयुताम् ॥ ९१०॥ गलं प्रकोष्ठेनापीड्य तत्करेण करान्तरम् । सन्धौ प्रगृह्य जठरं सक्थिभ्यां परिपीडयेत ॥११॥
१D क्षे । २ A छिन्नौ चार्धाङ्गिकौ। ३ A व । ४ A न । ५ D च । D चाटु A चापु । ७ A च्छा। ८A प्यो, ष्णौ। ९A न्व । १० D न्यद ज्ञात्वा च वाहेन । ११ A त्व । १२ A रा । १३ A काम । १४ A दि। १५D छण्डु A छड। १६A धो। १७ A त्प। A १८ Dन्तो बुडकी। १९D नीः। २. A क ?।
Aho! Shrutgyanam