________________
विंशतिः 8 ]
मानसोल्लासः ।
नामानश्वांस्तथा निष्कान् वृत्तिं दत्वा तु जीवितम् । मृतानां बन्धुरक्षार्थं परलोकक्रियाकृते ॥ ७६ ॥ कृपादानं प्रदातव्यं काञ्चनं भूरि भूभुजा । एवमुक्तविनोदेन दिनशेषं समाप्य च ॥ ७७ ॥ विसर्ज्य च जनान् सर्वान्प्रविशेद्राजमन्दिरम् । एवमङ्कविनोदोऽयं कथितो सोमभूभुजाः ॥ ७८ ॥ इत्यङ्कत्रिनोदः ॥ ५ ॥
अथ मलविनोदोsपि कथ्यते राजवल्लभः । मल्लास्तु त्रिविधा ज्ञेया उत्तमो मध्यमोऽधमः ॥ ७९ ॥ उत्तमो ज्यै(ज्ये) ष्ठिको नाम मध्यमो ऽन्तरज्येष्ठिकः । कनिष्ठ गोवलो ज्ञेयः कायैप्राणगुणोत्तरात् ॥ ८८० ॥ आविंशतेर्वत्सरेभ्यो भविष्णुर्मल्ल उच्यते । तत ऊर्ध्वं त्रिंशदब्दात्प्ररूढः परिकीर्तितः ॥ ८१ ॥ ततः परं हीयमानो नियुद्धे त्वक्षमो भवेत् । महाकायो महाप्राणो मल्लविद्याविशारदः ॥ ८२ ॥ ज्येष्ठिकः कथ्यते मल्लः प्राणविद्याधिकोऽपि वा । अर्धेन ज्येष्ठिमल्लस्य कायप्राणगुणैस्तु यः ८३ ॥ हीयमानो भवेन्मल्लो नाम्ना सोऽन्तरज्येष्टिकः । ततोऽपि हीयमानश्वेतैरेव गुणैस्तथा ॥ ८४ ॥ गोवलो नाम मल्लोऽसौ नियुद्धे वेगवान् वरः । वेगल्लः सरलो दीर्घो भविष्णुः शैशवे भवेत् ॥ ८५ ॥
जङ्गाकाण्डे कोष्टके च हनुदेशेऽस्थिसारवान् ।
90
द्वात्रिंशत वत्सराणां पाल्यंशो (शे) देशवि (श्रुतः ॥ ८६ ॥ पूर्णा तासु पालीषु वर्तयिष्ये नियोधनम् ।
एवं समादिशन्मल्लान् सर्वान् क्षोणिपतिः स्वयम् ॥ ८७ ॥
२२९
१ A पत्नीं । २ A वीरनन्दनः । ३ Dजे । ४ Dजे । ५ A यः । ६ A णोड़। ७D जै । “D वैग ! ९ D तां । १० A षोडश । ११ A स्तृताः ।
Aho! Shrutgyanam