________________
२२८
मानसोल्लासः ।
प्रविश्य खलकं सर्वे कृतकूर्मासनक्रियाः । प्रणमन्तो महीपालं विज्ञषेयुः पृथक् पृथक् ॥ ६४ ॥ क्षितीशः परिभूतेन योधयेत्परिभावकम् । स्त्रीमत्सरसमायुक्तं मत्सरेणैव योधयेत् ॥ ६५ ॥ सविरोधौ क्षितेत्यर्थे योधनीयो (यौ) परस्परम् । बिरुदं योधयेद्राजा बिरुदप्रतिरोधिना ।। ६६ ॥
विद्याङ्क (ङ्कः) समविद्येन तद्विधेनैव योधयेत् । वैरा (ड्रो) वैरिणा सार्धं योधनीयो महीभुजा ॥ ६७ ॥
द्रोहाङ्कं तादृशेनैव वध्येन सह योधयेत् । पापिनां (नं) पापशुध्यर्थं पापिना सह योधयेत् ॥ ६८ ॥
दण्डधारयु(धृतं दण्डमङ्कन्योर्मध्यवर्तिनम् । अपनीर्यं ततो मुञ्चेद् द्वावडूने युद्धलालसी ॥ ६९ ॥
निवारयन्तौ खोश्ञ्चन्तौ धावन्तावपसर्पिणौ । क्रोधरक्तेक्षणौ वीरौ सन्दष्टो (टो) टपुटावपि ।। ८७० ॥ मुञ्च मुञ्चेति जल्पन्तौ खोश्च खोश्चेति भाषिणौ । स्खलद्गतियुतौ वीरौ क्षिपन्तौ पुरतः सह ॥ ७१ ॥ रुधिरोक्षितसर्वाङ्गौ लम्बमानान्त्रमालिकौ । क्षुरिकायां विभिन्नायां पतितायां करादपि ॥ ७२ ॥
विच्छिन्नशस्त्रबाहौ च चरणे परिखण्डिते । निवारणार्थं युद्धेस्य दण्डं मध्ये निवेशयेत् ॥ ७३ ॥
अपक्षगामी नृपतिर्धर्मयुद्धं प्रवर्तयेत् । निहतृणा जयो युद्धे दैवेनैव प्रवर्तते ॥ ७४ ॥
प्रतिज्ञापालकानां तु जयं दद्यान्नृपः स्वयम् । प्रसाददानकं भूरि वस्त्रकाञ्चनभूषणम् ॥ ७५ ॥
[ अध्यायः ५
१ D कः । २ A ते त्य । ३ D यः । ४ D ङ्कं । ५ Dङ्कं यै । ६ D यं । ७ D तौ । ८ च । ९ A द्ध । १० A हतॄणां ।
Aho! Shrutgyanam