________________
२२७
विंशतिः ४]
मानसोल्लासः। छिनद्मि पादं धावन्तं नन्तं हस्तं निहन्म्यहम् । दण्ड छिनमि निक्षिप्तं गात्रं विद्या(ध्या)म्युपागतम् ॥ ५२ ॥ ब्रुवतामेवमन्योन्यं प्रतिज्ञा लेखयेन्नृपः । तेषां भूषाविशेषांश्च दत्वा कुर्याद्विसर्जनम् ॥ ५३ ॥ ततः प्रभाकरे वारे कृतपूर्वाह्निकक्रियः। निवयं भोजनं राजा भवेत्सम्भृतमण्डनः ॥ ५४॥ यामावशेषे दिवसे शुद्धान्तवनितायुतः । प्रसादचित्तैभृत्यैश्च पुरैम(रम)ण्डलपालकैः ॥ ५५ ॥ परमण्डलभूपालैः सचिवामात्यमन्त्रिभिः। प्रविश्य वीःणाङ्गा(गा)रमधितिष्ठेन्नृपासनम् ॥ ५६ ॥ ततः समागतान् सर्वान्यथायोग्यं निवेशयेत् । अङ्कगस्ततः समायान्ति समारुह्य करेणुकाः ॥ ५७ ॥ मुदितास्तूर्यघोषेण कुर्वन्तः सिंहगर्जितम् । काहलां वादयन्तश्च बिरुदाक्षरवादिनीम् ॥ ५८॥ हरिताङ्गरागकाः केचित्केचित्पीताङ्गरागिणः । कृष्णाङ्गरागिणः केचित्केचिच्छेताङ्गरागिणः ॥ ५९ ॥ त्रिबिन्दु(न्दु) विन्दुमाला च (लञ्च)त्रिशूलं मण्डलाकृतिः (ति)। पुत्रिकाकारमर्धेन्दुसदृशं तिलकं भवेत् ॥ ८६० ॥ तिलकं भालदेशे तु नेत्रस्याधः कटस्थले । बाह्रोश्च शिखरे वत्से दधाना जठरेऽपि च ॥ ६१॥ पञ्चवर्णकपट्टांश्च वसाना जानुलम्बिनः । सौवर्ण दधतो रम्यं पट्टिकावेष्टितं दलम् ॥ ६२॥ शङ्खजैर्मणिभिः स्थूलैः कृतकण्ठविभूषणाः।
पीतलोहितपट्टैश्च शोभिताश्चावलम्बने ॥ ६३ ॥ १D नतं । २ A ण्ड । ३ A नक्षिप्रं । ४ A याः। ५ A वीस D वीक्षणाङ्गारं । ६A बिडं । • D ति। ८ D शिरसे । ९ D वृत्वा A धृत्वा । १० D म्बिनः ।
Aho ! Shrutgyanam