________________
विंशतिः ४ ]
मानसोल्लासः ।
अधुनाडूविनोदोऽयं वर्ण्यते सोमभूभुजा । के(येन वा युध्यते सार्धमेकः खलकधार्मेनि ॥ २८ ॥
समेनास्त्रेण यस्तज्ज्ञैरङ्गः स परिकीर्तितः । अङ्काश्च त्रिविधाः प्रोक्तास्तेषां वक्ष्यामि लक्षणम् ॥ २९ ॥
अभिधानं नाम तेषां कारणैश्च पृथक् पृथक् । गालिभिस्ताडनैर्मूर्धहन नैर्द लबन्धनैः ॥ ८३० ॥
आस्ताम्बूलघातैश्च केशानां छेदनैरपि । एतैरन्यैश्च विविधैः कारणैर्योऽभिभूयते ॥ ३१ ॥ परिभूता इत्येष विश्रुतो जनसंसदि । एकवेश्यानिमित्तेन कामक्रोधविमोहितः || ३२ || ईर्ष्यया युध्यते यस्तु मत्सराङ्कः स उच्यते । गृहक्षेत्रादिहरणात् सीमाव्याजाच्च युध्यते ॥ ३३ ॥
देशलाभनिमित्ताच्च भूम्यङ्को नामतो हि सः । एकमुद्दिश्य सर्वान्वा बिरुदं पाठयेत्तु यः ॥ ३४ ॥
गाययेद्वादयेद्वाऽपि काला वा मदोद्धतः । आरुह्य महिषं दर्प (र्पाद् ) दिवा दीपं प्रदीपयेत् ॥ ३५ ॥ तृणानि विकिरन वीथ्यां विरुदाडूने निगद्यते शस्त्रविद्यावलेपेन युद्धवृत्या विजीविषुः ॥ ३६ ॥ युध्यते यस्तु स ज्ञेयो विद्याङ्को नाम नामतः । पित्रादिमारणोद्भूतं वैरं संस्मृत्य युध्यते ॥ ३७ ॥ वैराङ्क इति नामास्य कृतवान् सोमभूपतिः । कृतापराधकं राजा योधयेन्निग्रहाय यैम् ॥ ३८ ॥
तादृशेन द्वितीयेन द्रोहाङ्कः सोऽभिधीयते । कृत्वा पापानि यो मोहाद्विरक्तोऽभ्येत्य भूपतिः (तिम्) | ३९ ॥
१ A मुच्य । २ A गामनी, धामति । ३ A ङ्कसाः । ४ A स्येता । ५D र्वत्वाद् । ६D ढं ।'
• A द्वाद ।
हा । ९ A यन । १० A तम् ।
२९
L
Aho! Shrutgyanam